________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
अलब्धप्रतिवाक् प्राह पुनर्मृदुलगीरयम् । देव्यलं परिहासेन मुञ्च दृग्मोहनं पटम् ॥३३७॥ भूयोऽप्यलब्धप्रतिवाग् विषण्णोऽयमचिन्तयत् । कथं नास्ते च देवीति करैः स्रस्तरमस्पृशत् ॥३३८॥ अलब्धायां ततो देव्यां चलचित्त्वाज्जलं करात् । पपातास्य विलक्षस्य हा हतोऽस्मीति पूत्कृतः ॥३३९॥ विलपन् देवि देवीति परितः पदपद्धतिम् । वीक्षमाणोऽजगराहेर्घर्षणीं समलोकत || ३४०॥ तां दृष्ट्वा हा हता हन्त मेऽजगरेण किम् ? | इति शोकार्णवे मज्जन्निव मूर्च्छानिपातितः ॥ ३४१॥ ततः सशीकराम्भोधिकल्लोलव्यजनानिलैः । मूर्च्छाव्यपगमे सैष चिन्तयामासिवानिति ॥३४२॥ दूरं नाजगरो यावद् याति तावद् विशाम्यहम् । मुखेऽस्य संमतो मृत्युरपि देव्या समं मम ॥ ४३॥ चिन्तयित्वेति तत्पार्श्वे सोऽगात् कोपयितुं च तम् । जधान मूनि पादेन पटस्तेनोदगीर्यत ॥३४४॥ ततः कुण्डलिताङ्गोस्थाद् नमयित्वा फणं फणी । कुमारस्तु प्रियासङ्गसुभगं पटमादित ॥ ३४५॥ दृग्मोहनपटं कृत्वा हृद्येनं दयितामिव । म्रियेऽहमिति संचिन्त्योद्बन्धनं विदधे वटे ||३४६॥ वटभूल्लासिविटपभुजोऽथ वनदेवताः । तं रक्षयितुमुड्डीनखगारावैरिवाह्वयत् ॥३४७॥ तस्याथ लम्बमानस्य स्वत्राणायेव सर्वतः । भ्रमतः पश्यतो वृक्षान् मूर्च्छाऽऽगात् पाशकोऽत्रुटत् ॥३४८॥
[ ४६१
5
10
15
20