SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४६० ] त्वं चापतः कथं नाथ ! कथं चात्रागतो वद ? | परदोषकथामूकस्त्वयमित्यब्रवीदथ ॥ ३२५ ॥ प्रमादात् पतितः पूर्वभिन्ननौफलकग्रहात् । इहागतोऽहमद्राक्षं त्वां च ध्यानादिवाग्रतः ॥ ३२६॥ ऊचे विलासवत्यार्यपुत्र ! मां बाधते तृषा । कुमारः प्राह देव्यस्ति नातिदूरे सरोवरम् ॥३२७|| आवां तद् याव इत्युक्त्वा कुमारस्तामचालयत् । नाशकद् गन्तुमेषा तु खिन्ना मृद्वी नितम्बिनी || ३२८|| कुमारः प्राह देव्यस्मिंस्तावत्तिष्ठ लतागृहे । कृत्वाऽब्जिनीपुटे तोयं यावत् त्वद्येोग्यमानये ॥ ३२९॥ तयोचे तोयतृष्णा मे न तावत् प्राणवल्लभ ! | यावत् त्वद्वदनाम्भोजतृष्णा पुष्णाति विप्रियम् ||३३०|| सोऽभ्यधत्त क्षणं देवि ! धैर्यलम्ब्यतामिह । अहमायात एवायं तोयमादाय सत्वरम् ॥३३१॥ इत्युक्त्वा पल्लवैः कृत्वा स्रस्तरं तामशाययत् । दृग्मोहनपटं चास्याः समर्य्येदं समादिशत् ॥ ३३२ ॥ प्रत्यवायघनं देवि ! वनं तेन त्वयाऽमुना । पटेन च्छन्नया स्थेयं तावद् यावदिहैम्यहम् ॥ ३३३॥ तयेति शासनं तस्य ततो बहुमतं हृदि । ओमित्यप्रतिकूलत्वात् प्रत्यगृह्यात् मौलिना ॥३३४|| गत्वा सरः समादाय जलानि च फलानि च । आगच्छतोऽस्य पस्पन्द कामं वामं विलोचनम् ||३३५|| ततः साशङ्कमागत्य तमुद्देशं जगाद ताम् । मोहनपटं मुञ्च जलं देवि ! गृहाण च ॥ ३३६ ॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy