________________
[४५९
गुणानुमोदनाद्वारे विलासवतीकथा ]
जलेन शफरीवासौ यज्जीवेद् न मया विना । पटावगुण्ठनाज्ञातमिदं पुष्पोच्चये पुरा ॥३१३॥ अलं प्राणैर्ममाप्येतां विनोद्बध्य म्रिये क्वचित् । इति पश्यन् दिशोऽपश्यदयं नीपं समीपतः ॥३१४॥ स्थलमौलिस्थिते तस्मिन् गतोऽयं विगतोत्सवः । ददर्शकं सर: साब्जं सनक्षत्रमिवाम्बरम् ॥३१५।। तेन हंसो वियोगाल् तत्राक्रन्दन् समन्ततः । प्रियां कथञ्चिदासाद्य मोदमानश्च वीक्षितः ।।३१६।। दृष्ट्वेत्यचिन्तदयं जीवतां सर्वसम्पदः । मृतानां तु न, तत्कान्ताऽस्येव मेऽपि मिलिष्यति ॥३१७।। अन्यच्च मुनिनाप्यास्ति गदितं यदियं पतिम् । प्राप्य विद्याधरीत्वं चोत्तमार्थं साधयिष्यति ॥३१८॥ तन्न स्वं घातयिष्यामि 'विचित्रा कर्मणां गतिः' । प्राप्तकालं ममाप्येतत् तस्या एव गवेषणम् ॥३१९॥ चिन्तयित्वेति नारङ्गैः प्राणवृत्तिं विधाय सः । तामन्वेष्टुं प्रवृत्तोऽब्धेर्यावत् तटमटाट्यते ॥३२०॥ तावदाश्लिष्टफलकामलोकत निजां प्रियाम् । रुरोद सापि तं वीक्ष्यापृच्छदाश्वास्य तामयम् ॥३२१॥ सोचे त्वयि तदा नाथ ! पतिते मदभाग्यतः । सार्थवाहस्ततो यानं चोत्पथेऽभजतां गतिम् ॥३२२॥ क्रन्दन्त्यास्त्वद्वियोगेन ममार्तेरिव तत्क्षणात् । निशा च नौश्च विलयं गते कीलिततारके ॥३२३॥ ततः फलकमासाद्य तव पुण्यमिवाञ्जसा । लङ्घितो दुःखवद् वाधिदृष्टश्च त्वं तदन्तवत् ॥३२४॥
15
20