________________
5
10
४५८ ]
151
20
हाकिमेतदुपक्रान्तमिति सोऽपि त्यजन् पटम् । तां समाश्वासयामास कदलीकन्दलानिलैः || ३०१॥ स्वस्थीभूताऽब्रवीदेषा किमिदं सोऽवदच्च किम् ? + सोचे त्वं न मया दृष्टोऽधुना सोऽप्याह वेद्मि न ॥ ३०२ ॥ साऽभ्यधात् किं न हा वेत्सि तेनाप्रत्ययभीरुणा । पटव्यतिकरोऽशंसि सा परीक्ष्य तमग्रहीत् ॥३०३॥ इति प्रीतिमये काले कियत्यपि गते प्रियम् । कुमारः प्राह देशाय साप्यमन्यत तद्वचः ॥३०४॥ तापस्यनुज्ञया भिन्नपोतसंश्रवणं ध्वजम् । कुमारः प्रांशुवंशेन तीरे नीरेशितुर्व्यधात् ॥३०५॥ एत्य निर्यामकाः कोऽपि कुमारं जगुरन्यदा । त्वां भग्नतरणे ! भानुदेवेन प्रहिता वयम् ||३०६|| महाकटाहवास्तव्यो यानेष मलयाचलम् । भग्नपोतध्वजं दृष्ट्वा त्वामाह्वयति सञ्चल ॥३०७॥ कुमारस्त्वाह कान्तास्ति मे तेऽप्यूचुरुपेतु सा । ततस्तौ दम्पती तापस्यादीनापृच्छ्य जग्मतुः ॥३०८||
कुमारः सार्थवाहस्य बहुमानेन वाहनम् । आरुह्याथ प्रियापार्श्वात् पटरत्नमुपाददे ॥३०९॥ §§ अन्यदा तत्प्रियालुब्धः सार्थवाहस्ततो निशि । सनत्कुमारं निर्यूहात् प्रस्रवन्तमपातयत् ॥३१०॥ प्राप्यकस्मादयं पूर्वभग्ननौफलकं ततः । पयोधिं पञ्चरात्रेण तीर्त्वा मलयमासदत् ॥३११॥ सदध्यौ वणिजा तेन किमहं पातितोऽम्बुधौ ? । हुं विलासवती लोभाद् मूढोऽयं वेत्ति तां न हि ॥ ३१२||
[ विवेकमञ्जरी