SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [४५७ गुणानुमोदनाद्वारे विलासवतीकथा] कुमारो गौरवाद् दत्तासने तत्रासितो मुदा । तां विलासवतीं पद्मस्रस्तरस्थामलोकत ॥२८८।। तं दृष्ट्वा सापि तच्चित्तमिवान्तर्लज्जिताऽविशत् । तापस्यादेशतश्चक्रे चा_पाद्यादिसत्क्रियाम् ॥२८९॥ अत्रान्तरे नभोमध्यमध्यास्त च गभस्तिमान् । कुमारसत्क्रियाचिन्तां विधातुमिव कामपि ॥२९०॥ आतिथ्यं पनसैः कृत्वा कुमारस्याथ तापसी । जगाद तत्पुरोभूय बाष्पाविलविलोचना ॥२९१।। राजपुत्र ! किमातिथ्यं कन्दमूलफलाशनः । करोतु भवते वल्कवेषो वैखानसो जनः ? ॥२९२॥ तद् विलासवती सैषा जीवितादपि वल्लभा । पूर्वसंपादिता धात्रा भूयः संपाद्यतेऽधुना ॥२९३।। इत्युक्त्वा रुदतीं वल्कपिहितास्यामयं जगौ । इदं भगवति ! त्यक्तसंसारायाः किमद्य ते ? ॥२९४॥ ततस्तापसकन्याभिरुपनीताम्भसा मुखम् । प्रक्षाल्य वल्कलान्तेन निर्मायेयं समुत्थिता ॥२९५॥ होमकुण्डेऽनलं हुत्वा सा यशोवर्मसूनवे । सालङ्कारैविभूष्याऽदात् तां विलासवतीं तदा ॥२९६।। गान्धर्वेण विवाहेन ततोऽसौ प्रेमसौरभाम् । मनीषी पर्यणैषीत् तां रुक्मिणीमिव केशवः ॥२९७॥ मूर्ते इवैकदा कामरती तौ दम्पती वने । जग्मतुः क्रीडितुं तत्र चक्रतुः कुसुमोच्चयम् ॥२९८॥ जगौ काले कुमारस्तां प्रियां गन्तुमथाश्रमम् । चिन्वती कुसुमान्युच्चैर्न व्यरंसिदियं पुनः ॥२९९॥ विप्रलब्धा ततोऽनेन दृग्मोहनपटावृतेः । तमनालोक्य साऽकस्माद् न्यपतद् मूच्छिता भुवि ॥३००॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy