________________
४५६]
[विवेकमञ्जरी
न शक्नोम्यार्यपुत्रस्य पुनः सोढुं वियोजनम् । तदुद्बध्यात्र वासन्त्यां घातयामि स्वमञ्जसा ॥२७६।। आर्यपुत्रशरीरे तु रक्षां कुर्यात् सन्ततम् । कथयेत च वृत्तान्तं भगवत्यो ! ममेदृशम् ॥२७७|| अहं तु शंसितुं नेशे भृशं लज्जावशंवदा । इत्युदीर्याभिवल्मीकं स्थिता पाशमसूत्रयत् ।।२७८।। ततो देवान् गुरून् नत्वा पाशे कृत्वा शिरोधराम् । मुञ्चते यावदात्मानं तावदस्मि प्रधाविता ॥२७९॥ पाशादाकृष्य साऽवादि वत्से ! नाप्रच्छनं मयि । कार्यस्याकथनं चापि वत्सलायां तवोचितम् ।।२८०॥ ततो ही सर्वमनया श्रुतमित्याहितत्रपा । सोचे प्रसीद भगवत्यत्र लज्जाऽपराध्यति ॥२८१।। अथाभाषि मया वत्से ! न कोपो नः परं वद । त्वया कोऽप्यतिथिदृष्टः सोचेऽश्राव्येव पूज्यया ॥२८२॥ अथाभाषि मया वत्से ! सत्यवाग् भगवान् खलु । आयातमपि ते भाविप्रियं यावश्चलाश्रमम् ॥२८३॥ इत्यागत्याश्रमं त्वामन्वेष्टं मुनिकुमारकान् । प्रस्थाप्य नृपनन्दन्याः पार्वेऽहं प्रयता स्थिता ॥२८४॥ दृष्टो न कश्चिदस्माभिरित्यागत्य न्यवेदि तैः। . ततस्तांस्तत्र मुक्त्वाहं मार्गितुं त्वामिहागमम् ॥२८५।। भवितव्यतयाऽवश्यकार्ये सज्जतया च मे। दर्शितोऽसि तदागच्छाश्रमं तज्जीवनौषधे ! ।।२८६।। ततः प्रीतिमता तेन प्रियलोकोत्सुकात्मना । कुमारेण समं प्राप तापसी निजमाश्रमम् ॥२८७।।
15