________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
तदेतत् प्रतिश्रुत्यास्थात् पञ्चषाणि दिनानि सा । देवातिथिक्रियामन्दादरा स्मरविकारयुक् ॥ २६४॥ नागवल्ल्याश्रितं चूतं मरालं वरान्वितम् । सबाष्पं वीक्ष्य निःश्वस्यान्येद्युरेषाऽऽ श्रमाद् ययौ ॥२६५॥ ततोऽचिन्ति मया नेयं भव्या भाति क्व याति च । पश्यामीत्यहमप्यस्याः पृष्ठेऽगां गुप्तचर्यया || २६६|| अगृहीतकरण्डासौ गता पुष्पोच्चयावनौ । विलोकितुं प्रवृत्ता च दिशस्तरलतारिका ॥ २६७॥ ततोऽचिन्ति मया किं नु पश्यत्येषा पुनर्ययौ । अशोकवीथिकदलीवनं तत्र स्थिताऽरुदत् ॥२६८॥ व्यलपच्चेति हा तत्रभवत्यो वनदेवताः स्थानं तदेतद् यत्रार्यपुत्रोऽभ्यागात् कुतश्चन ॥ २६९॥ तापसीति धिया तेन विनीतेनास्मि वन्दिता । गदिता च मृदूल्लापं तपस्ते वर्धतां शुभे ! ॥२७०॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तरा भग्नयानत्वादेकाकीह समागमम् ॥ २७१॥ तद् मे भगवती शंसत्विदं किं जलधेस्तटम् । द्वीपो वा कः प्रदेशश्च कुत्राश्रमपदं तव ? ॥२७२॥ दत्तं तु प्रतिवाक्यं न ससाध्वसहृदा मया । स्वभावाद् वा मया स्तोकं भूभागं गतमग्रतः ॥ २७३॥ धैर्यमालम्ब्य पश्यन्त्या पृष्ठे नायात् स वीक्षितः । तन्न जानामि किमयं हृदयाद् मे विनिर्गतः ॥ २७४॥ उतार्यपुत्रवेषेण कोऽपि मामीक्षते सुरः । आर्यपुत्रः स एवायं वा यदस्ति तदस्तु वा ॥ २७५॥
[ ४५५
5
10
15
20