________________
5
10
15
20
४५४]
श्रियश्चलाचला वत्से ! यौवनं च पतापतम् । पटापटं च विषयसुखं दुःखं वदावदम् " ॥ २५२ ॥ निशम्येति तया प्रोचे ब्रूथ यत् तद् वृथा न हि । कृत्वा प्रसादं तद् मेऽपि दत्तां भगवती व्रतम् ॥ २५३॥ इयं ततो मयाऽवादि वत्सेऽलं व्रतवार्तया । वनेऽपि हन्ति यद् यूनः स्मरो यौवनपाद्रिकः ॥ २५४॥ पृष्टश्च तब वृत्तान्तं दिव्यज्ञानधरो मुनिः । श्वेतवीन्द्रसुतालोकादिकं सर्वं न्यवेदयत् ॥२५५॥ मा संताप्सीस्ततो वत्से ! जीवत्येव तव प्रियः । तेन दीर्घायुषा भावी भूयोऽपि तव सङ्गमः ॥२५६॥ निशम्येति ततस्तोषविस्मयोत्तरला मम । सङ्कल्पतः समुत्तार्यासदप्याभरणं ददौ ॥२५७॥ असंपत्तौ ततो जातचेतनेयमलज्जत । मयोचे संभ्रमेणालमीदृग्दानोचितासि यत् ॥ २५८ ॥ व्रताग्रहेण तदलमिति मद्वचनादियम् । तुष्टा जगाद भवतामादेशो मेऽस्तु मूर्धनि ॥२५९॥ अथासौ तापसकन्योचितेन विधिना चिरम् । स्थिता कुलपतिश्चागात् तीर्थार्थी सिद्धपर्वतम् ॥ २६०॥ इतश्चातीतकतिचिद्दिनेभ्योऽन्येद्युराश्रमे ।
आगतेयं चिराद् गत्वा समित्कुसुमहेतवे ॥२६१॥ वीक्ष्यामाणा खिन्ना बाष्पक्लिन्नानना मया । पृष्टा वत्से ! किमित्येषा बन्धूनां स्मृतिमाह च ॥२६२॥ ततोऽभाषि मया भूयो वत्से ! तावद् विषीद मा । यावदभ्येति भगवान् स त्वां नेष्यति बन्धुषु ॥ २६३॥
[ विवेकमञ्जरी