________________
[४५३
गुणानुमोदनाद्वारे विलासवतीकथा]
दत्त्वोपयोगं तपसोऽनुभावाद् भगवानपि । जगाद तामलिप्तीशेशानचन्द्रसुता ह्यासौ ॥२४०॥ श्वेतवीशयशोवर्मसुतश्चैत्रोत्सवेऽनया । दृष्टः सनत्कुमारोऽस्मिन्नजनिष्टानुरागिणी ॥२४१॥ पतिं मनोरथादेतं न पाणिग्रहणादियम् ।। शुश्राव काण्डकुपितनृपाज्ञानिहतं जनात् ॥२४२॥ विलोक्य मृतमप्येनं प्राणांस्त्यक्ष्यामि तत्कृते । इति तन्मोहतोऽचालीदियमेकाकिनी निशि ॥२४३।। सुप्ते परिजने मन्दं निःसृत्य निजमन्दिरात् । अवतीर्णा पुरीमार्गे सद्यः प्राप्यत तस्करैः ॥२४४।। गृहीत्वाऽऽभरणान्युच्चैः सार्थवाहाचलस्य तैः । दत्ता बर्बरकूलाभिगामिनस्तत्क्षणादियम् ।।२४५।। अचलेन ततो यानमियमारोप्य चालिता । स्फुटितं यानमेतस्य फलकं चेयमासदत् ॥२४६॥ इदं कूलमियं प्रापत् त्रिरात्रेण ततोऽम्बुधेः । इदं भूतं, भविष्यत्तु भर्ता सोऽस्या मिलिष्यति ॥२४७॥ प्राप्य विद्याधरैश्वर्यं भुक्त्वा भोगान् सहानया । परलोकहितेनेहलोकं सफलयिष्यति ॥२४८॥ श्रुत्वेत्यपृच्छं भगवन् ! न हतः पतिः ? । नैवेति भगवानाह ततः प्रीतिमधामहम् ॥२४९॥ "समभाषि द्वितीयेऽह्नि सा मया श्यामलानना । राजपुत्रि ! विषादेन कृतं कुरु धृति हृदि ॥२५०।। संसारे चिक्लिशेऽमुष्मिश्चिक्लिदो विपदां गणः । सदैव चिक्नसो मृत्युः कृतान्तश्च घनाघनः ॥२५१॥