________________
४५२]
[विवेकमञ्जरी
5
अथो मयोचे भगवन् ! देहि मे व्रतमञ्जसा । इहोपकारिणीभिस्तु विद्याभिः सर्वथा कृतम् ॥२२८॥ ततो भगवताऽऽख्याय तापसाचारमात्मनः । आपृच्छ्य पितरौ श्वेतद्वीपेऽत्रानीय दीक्षिता ॥२२९॥ कियत्यपि गते कालेऽन्यदाऽहं समिदाहृतौ । गताऽम्भोधितटेऽद्राक्षं मूर्ति साङ्कामिवैन्दवीम् ॥२३०।। फलकेन युतां कन्यामेकामेकान्तसुन्दराम् । ततोऽगमं तदभ्यर्णे जीवतीति निरूपितुम् ॥२३१॥ मूच्छितामपि जीवन्ती मत्वा लावण्यतो द्रुतम् । अभ्यषिञ्चमहं वारि समादाय कमण्डलोः ॥२३२॥ दृशावुन्मीलयन्ती सा समभाषि मया ततः । वत्से ! धीरा भवाहं यदस्मि ते तापसी पुरः ॥२३३।। ततोऽश्रुमिश्रदृगियं नत्वा मामुपविश्य च । दीर्घमुष्णं च निःश्वस्य चित्ते चिरमखिद्यत ॥२३४॥ ततोऽस्या लक्षितो भावश्चिन्तितं च मया हृदि । भाव्यं महानुभावत्वाद् महाकुलभुवाऽनया ॥२३५॥ ततः फलैः प्राणवृत्तिमनिच्छन्त्यपि कारिता । नीत्वाऽऽ श्रमं कुलपतेर्दर्शिताऽसौ ततो मया ॥२३६॥ ततो भगवताऽऽनन्द्य वत्से ! का त्वमितीरिता । आह सा तामलिप्तीतो मया चोक्ता निरश्वसीत् ॥२३७।। ततोऽचिन्ति महावंशप्रसूः स्वं कथयेत् कथम् । इयमास्तां कुलपति प्रक्ष्यामि समयान्तरे ॥२३८॥ वासरेऽथ व्यतिक्रान्ते कृते सायंतने विधौ । भूतं भावि च वृत्तान्तमस्याः पृष्टो मुनिर्मया ॥२३९॥
15