SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे विलासवतीकथा] [४५१ अन्यदाऽऽवामगच्छाव दम्पती नन्दनं वनम् । नानाविधाभिः क्रीडाभिश्चिरं चाक्रीडतामिह ॥२१६॥ अत्रान्तरे मम भोगान्तराये समुपस्थिते । क्षीणे तदायुषि व्यध्यात् प्रदीप इव मे पतिः ॥२१७॥ ततोऽहं तमसाक्रान्ता सारसीव समन्ततः । क्रन्दन्ती च भ्रमन्ती च भूतले सहसाऽपतम् ।।२१८।। उत्पतन्तीव मूर्छान्ते चेतिता पुनरस्मरम् । आकाशगामिनी विद्यां तथाप्युदपतं न हि ॥२१९।। अपराधमात्मीयं च स्मरन्ती यावदस्म्यहम् । द्वितीयं हृदयं तावद् देवानन्दः समाययौ ॥२२०॥ विद्याधरोऽयं वैराग्याद् विलसत्तापसव्रतः । मामाह किमिदं वत्से ! मयोचे दैवचेष्टितम् ॥२२१॥ तेनोक्तं किं मयाऽप्युक्तमार्यपुत्रो व्यपद्यत । आकाशगामिनी विद्या सापि मेऽद्याप मोघताम् ॥२२२।। स बाष्पगद्गदोऽवादीद् वत्सेऽलं परिदेवितैः । ईगेव हि संसारः कुशाग्रजलचञ्चलः ॥२२३॥ इन्द्रायुधमिव स्वप्नसाम्राज्यमिव वाऽस्थिरम् । भवं विभाव्य धीमंन्तो धर्मं दधति शाश्वतम् ॥२२४॥ ततो मयोचे भगवन् ! व्रतेनानुगृहाण माम् । सोऽब्रवीद् युक्तमेतत् तु किं विद्याभ्रंशकारणम् ? ॥२२५॥ मयोचेऽहं न जानामि स त्वाह ज्ञानचक्षुषा । त्वया शोकार्त्तया वत्से ! सिद्धकूटमलङ्घयत ॥२२६॥ पपात तस्य शिखरदेशे कुसुमदाम ते । वत्से ! तन्मूल एवायं विद्याभ्रंशोऽभवद् भृशम् ॥२२७॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy