SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [४४९ गुणानुमोदनाद्वारे विलासवतीकथा] युवतिस्तापसी चैषैकाकिनी तत्किमेतया ? । अन्यं प्रक्ष्याम्यहं कञ्चिदिति ध्यात्वाऽविशद् वनम् ॥१९२॥ पृच्छाम्येतामिति पुनर्व्यावृत्तोऽयमसावपि । विशेषमन्थरं गत्वा स्तोकं भूमागमस्थित ॥१९३।। मुक्त्वा करण्डके वल्कं विस्रस्तमिव पर्यधात् । जृम्भमाणा बभञ्जाङ्गमबध्नात् कबरी पुनः ॥१९४।। तद्विकारमयं दृष्ट्वाऽचिन्तयत् किमिदं पुनः । विरुद्धवस्तुविषयालोकेन किमु वाऽमुना ? ॥१९५।। इति व्याघुट्य गतवानयं गिरिनदीं ततः । प्राणवृत्तिं व्यधात् पाकपेशलैर्भूरुहां फलैः ॥१९६।। अत्रान्तरे नभोवृक्षात् फल तरणिमण्डलम् । निरन्नेन किलादाय कालेन कवलीकृतम् ॥१९७|| सान्ध्यकृत्यं विधायाथ पूर्वेण विधिना ततः । अशेत शेषयामिन्यामसौ स्वप्नमलोकत ॥१९८॥ जानामि काञ्चनतरोरासन्नस्थस्य मे ददौ । स्रजं सर्वेन्द्रियमनोहरा कापि वराङ्गना ॥१९९॥ ऊचे च पूर्वक्लृप्तेयं स्रग् मया ते समर्प्यते । कुमार ! गृह्यतामित्थमादां कण्ठे च तामधाम् ॥२००॥ अत्रान्तरे विभातेशागमडिण्डिमचण्डिमा । सारसक्रौञ्चनिनदस्तस्य निद्रामनीनशत् ॥२०१॥ प्रबुद्धोऽचिन्तयदयं मम स्वप्नोऽयमीदृशः । कन्यालाभाय यद्वेदमरण्यं कुत एव सः ? ॥२०२।। अत्रान्तरे च पुस्फोर भुजा दृष्टिश्च दक्षिणा । सोऽपि दध्याविदं भावि ध्रुवं न श्रुतमन्यथा ॥२०३॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy