________________
४४८]
[विवेकमञ्जरी योषिदेतत्समानाऽऽसीद् नास्ति नैव भविष्यति । इति रेखात्रयं धातुरेषा धत्ते वलित्रयम् ॥१८०॥ यौवनस्य स्मरारोहवाजिनो वेल्लनोचिता। ......अस्या विभाति जधनस्थली पुलिनपुष्कली ॥१८१॥ स्वर्भुवःसुध्रुवां रूपजयस्तम्भसखिभ्रमौ । ऊरू सुवर्णकदलीगर्भगौरौ बिभर्त्यसौ ॥१८२।। निपत्यपादयोरेनां नखरत्नापदेशतः । चन्द्रार्थमर्थयन्तीव तारिकादौत्यकारिकाः ॥१८३॥ इयं निसर्गमधुरा वल्कलैरपि राजते । सुवर्णकेतकीपुष्पकलिकेव बहिर्दलैः ॥१८४।। तदिय नूनमन्यूनरूपा भूपालनन्दनी। सा विलासवती यद्वा क्वासौ क्व च वनस्थितिः ? ॥१८५।। इति चिन्तयतस्तस्य सा कृत्वा कुसुमोच्चयम् । यावद् बाला चचालात्मतपोविपिनसंमुखी ॥१८६॥ तावदेय स्मरोन्मादं गोपयित्वाऽभिसृज्य च । नमस्कृत्य च तामूचे तपस्ते वर्धतां शुभे ! ॥१८७॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तराभग्नयानत्वादेकाकीह समागमम् ॥१८८॥ तद् मे भगवती शंसत्विदं किं जलधेस्तटम् ? । . द्वीपो वा कः प्रदेशश्चः कुत्राश्रमपदं तव ? ॥१८९॥ ततो विलोक्यं तं सापि विकुञ्चितविलोचना । दिग्मुखानीव पश्यन्ती क्षणं तस्थौ ससाध्वसा ॥१९०॥ अदत्तप्रतिवागेषा ययावभि तपोवनम् । कुमारस्तु स्थितस्तत्र चिन्तयामासिवानिति ॥१९१॥
15