________________
[४४७
गुणानुमोदनाद्वारे विलासवतीकथा ]
स विलासवती स्मृत्वा चिन्तयामासिवानिति ।
पक्षिणोऽमी वरं येषामभीष्टविरहो न हि ॥१६८॥ ६६ अत्रान्तरे निशानावो भङ्गाद् मग्नान्यतारकम् ।
भास्वानपि नभोऽम्भोधि ती| तत्प्रान्तमीयिवान् ॥१६९। सान्ध्यकृत्यं विधायाथ स्मृत्वा देवगुरूनयम् । शिलाशय्यामवष्टभ्याशेत वन्य इव द्विपः ॥१७०॥ निशान्ते बन्दिभिरिव ध्वनद्भिः श्रुतिपेशलम् । वाजिभिस्त्याजितो निद्रां विचचार वने वने ॥१७१।। यावद् गिरिसरित्तीरमेकं वीरो जगाम सः । नूतनां तावद् द्राक्षीद् मृगाक्षीपदपद्धतिम् ॥१७२॥ ततस्तदनुसारेण कौतुकोत्तानमानसः ।। किञ्चिदग्रे गतोऽपश्यदेकां तापसकन्यकाम् ।।१७३।। वल्कसंवर्मितां धर्मनृपतेः सुभटीमिव । शस्त्रागारमिवोद्यानं लुण्टन्तीं पुष्पधन्वनः ॥१७४।। नागकन्यामिवोवृत्तामुत्तीर्णममरीमिव । लतान्तरितदेहस्तां पश्यन्नयमचिन्तयत् ॥१७५॥ युग्मम् ॥ अस्या जितो मुखेनोग्रजटावनसरित्तटे।। पादान्तकृतभालाक्षकुकूलस्तप्यते विधुः ॥१७६॥ मुखाङ्कखलकेऽमुष्याः खेलतोः लोचनाङ्कयोः । नासावंशनिभाद् वेधा व्यधाद् दण्डमिवान्तरे ॥१७७।। लावण्यमृतकुल्यायाः स्तनावस्या मृगीदृशः । दोर्नालकरपाथोजविशकन्दाविवोज्ज्वलौ ॥१७८॥ रोमलेखामिषादस्याः पीत्वा नाभिसरोरुहम् । वक्त्रराजीवपानाय भृङ्गराजीव गच्छति ॥१७९।।