________________
४४६]
[विवेकमञ्जरी
तदा वर्षानिलोल्लोलकल्लोलकिलिकिञ्चितैः । यानं त्रस्तैणवद् व्योम्न्यारुह्यारुह्यापतद् मुहुः ॥१५६।। कातरा व्यलपन् धीरा यानत्राणोद्यमं व्यधुः । धार्मिकाश्च तदा स्वस्वकुलदैवतमस्मरन् ॥१५७|| आरुह्य कुत्रचिद् वार्धिनगमूनि निरङ्कशम् । तदा दुर्दैवसंरम्भाद् यानमेतदभज्यत ॥१५८॥ धीरचेताः कुमारस्तु प्राप्यैकं फलकं ततः । व्यहोरात्रं तरंस्तोयं गतोऽयं तीरमम्बुधेः ॥१५९।। ततोऽसौ पुलिने गत्वा वासांसि निरपीडयत् । तदवस्थामिवालोक्य मुञ्चन्तीवाश्रुनिर्भरम् ॥१६०॥ दृग्मोहनपट: स्वानुभावात् तीमित एव न । यद्वा कुमारदुःखान्तचिकीर्जाड्यं किमेतु सः ? ॥१६१॥ कुमारस्तदभेदेन विस्मितात् सैकया दिशा । गत्वा किञ्चिद् विशश्राम श्रान्तो जम्बूतलावनौ ॥१६२॥ अचिन्तयच्च तत्रायमहो ! विधिविजृम्भितम् । अश्रद्धयामवाप्यापि दशां यज्जीव्यते मया ॥१६३।। विश्वभूतिं विना तेन जीवितेनापि किं मम ? । यद्वा कृतं विषादेन 'विचित्रा कर्मणां गतिः' ॥१६४।। यथाऽहमुद्धृतो जीवंस्तथा सोऽपि क्वचिद् भवेत् । तच्चन्द्राकाविव क्वापि जीवन्तौ संघटावहे ॥१६५।। विचिन्त्येत्यचलत् तृष्णाक्षुधार्तोऽयमुदन्मुखः । अपश्यच्च नदीमेकां वनराजिविराजिताम् ॥१६६।। कृत्वा फलजलाहारं तत्र तिष्ठन्नलोकत । एकं निजस्त्रिया युक्तं सारसं भ्रमसंभृतम् ॥१६७।।