SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [४४५ गुणानुमोदनाद्वारे विलासवतीकथा] तत्र मे मातुलो राजा तं द्रष्टुमहमुत्सुकः । तत्त्वं मे सिंहलद्वीपगामि यानं निवेदयेः ॥१४४॥ ततः कतिपयैरेव वासरैः स न्यवेदयत् । यानमेकं कुमाराय प्रस्थास्नु प्रति सिंहलम् ॥१४५।। गच्छतेऽस्मै वणिक्पुत्रः पटमेकढौकयत् । आश्चर्यकारी देवायं गृह्यतामिति रोचयन् ॥१४६।। किमाश्चर्यं करोत्येष कुमारेणेति भाषिते । स प्राह पुरुषं कुर्याददृश्यमवगुण्ठितः ॥१४७।। कुमारः प्राह लाभोऽस्य कुतस्ते सोऽब्रवीदिति । अस्त्यासनन्नमिहानन्दपुरं तत्रास्ति मे सुहृत् ।।१४८।। सिद्धसेनाभिधः सिद्धविद्यस्तेनैकदा मम । आनीय मण्डले यक्षकन्याऽध्यक्षीकृता पुरा ॥१४९।। तयाऽभितुष्टया दृष्टिममोघीकर्तुमात्मनः । कुमार ! मम दत्तोऽयं पटो नयनमोहनः ॥१५०॥ ततः प्रीतः कुमारस्तमादायानुमतोऽमुना । सविश्वभूतिरगमद् वेलाकूलं पयोनिधेः ॥१५१॥ प्राह सांयात्रिकं तत्रेश्वरदत्तं मनोरथः । कुमारोऽयं मम स्वामी सर्वस्वं वा किमुच्यते ? ॥१५२॥ द्रष्टव्यस्तत् त्वयात्मेवेत्युक्ते सोऽभिदधे ततः । मित्र ! किं बहुना यादृक् तव तादृग् ममाप्यसौ ॥१५३।। भालयित्वेति भूपालभवं नत्वा च सोऽगमत् । कुमारोऽथ समारोहद् यानमेतदपूर्यत ॥१५४॥ अथेदं सिंहलद्वीपाभियानं यानमन्यदा । कालमेघमयः कालः क्रुधोत्तालोऽकटाक्षयत् ॥१५५।। 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy