SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४४४] [विवेकमञ्जरी - 10 कुमारोऽचिन्तयच्चित्ते मार्योऽयं मय्यमारिते। मारयन्नपराधी मे तद् वरं विषयान्तरम् ॥१३२॥ आख्यदेतत् कुमारोऽस्मै सोऽपि हृष्टो जगाविति । . स्वर्णभूमिं प्रति ततो यानमद्यैव यास्यति ॥१३३॥ सविश्वभूतिविनयन्धरः सद्गुणबन्धुरः । ययौ छन्नं कुमारोऽथ वेलाकूलं पयोनिधेः ॥१३४।। ततः समुद्रदत्तस्यार्पयत् प्रवहणेशितुः । विश्वभूतिद्वितीयं तं कुमारं विनयन्धरः ॥१३५।। कुमार ! खेदितोऽसि त्वं क्षन्तव्यमिति सास्त्रदृक् । संभाष्यैनं प्रणम्याथ तलारक्षो न्यवर्तत ॥१३६।। उदितेऽथ विधौ वाधिवेलापयसि वल्गति । सविश्वभूतिरारोहद् यानुमुर्वीशनन्दनः ॥१३७।। नावर्गलान् समुत्क्षिप्य गृहीत्वांशुकमञ्जसा । कर्णधारे समुद्युक्ते नौरपूर्यत नाविकैः ॥१३८।। यानेन जाङ्घिकेनाथ पाथ:पथमतीत्य तौ । दिनैः कतिपयैरेव स्वर्णभूमि समीयतुः ॥१३९॥ समुद्रदत्तमापृच्छ्योत्तीर्य प्रवहणात् ततः । सविश्वभूतिरविशत् कुमारः श्रीपुरं पुरम् ॥१४०।। श्वेतवीतः समायातं सिद्धदत्तवणिक्सुतम् । समनोरथदत्ताख्यं बालमित्रमिहैक्षत ॥१४१॥ असंभाव्यागमः सोऽपि वीक्षितोऽनेन संभ्रमात् । विहसंश्च प्रणम्यात्मावासेऽनीयत भक्तितः ॥१४२॥ भुक्तोतरं ततः पृष्टः समागमनकारणम् । कुमारः प्राह यानस्मि तातरोषेण सिंहलम् ॥१४३॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy