SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ [४४३ गुणानुमोदनाद्वारे विलासवतीकथा] तलारक्षोऽवदद् देव ! शाधि मां करवाणि किम् ? । कुमारः प्राह मां हिन्धि जनिकृवंशपांसनम् ॥१२०॥ अत्रान्तरे क्षुतं मार्गे व्रजद्भिः कैश्चिदौच्यत । किं बहूक्तेन निर्दोषः सैष गङ्गाजलं यथा ॥१२१॥ इत्याकर्ण्य तलारक्षः प्राह निर्दषणो भवान् । यत्क्षुतोपश्रुती व्यक्तमेव त्वां शुद्धमाहतुः ॥१२२।। खलूक्त्वाऽन्यप्रलापेन तत्कुमार ! निवेदय । कीदृगेतदभूद् येन भूपं विज्ञपयाम्यहम् ॥१२३॥ कुमारः प्राह किं वच्मि प्रमाणं सैव मेऽम्बिका । तेनोचे सैव दुष्टेति गत्वा शंसामि भूपतिम् ॥१२४॥ इत्युदित्वोत्थितो रुद्धः कुमारेणेति जल्पता । संरम्भेणालमेतस्यां 'गुरुभ्यः को नु मत्सरः' ? ॥१२५।। तेनोचे त्वं यशोवर्मसुतोऽसि कियदुच्यते । कोपस्तन्नैष ते तस्यां तत् प्रसीद विमुञ्च माम् ॥१२६॥ कुमारः प्राह संरम्भं त्यज, स त्वाह मा वद । कुमारः प्राह चेन्न स्वं घातयिष्यामि तद् व्रज ॥१२७।। निशम्येति तलारक्षो रुदन् प्रोवाच धिङ् नृपम् । कुमारः प्राह को दोषस्तस्य, मे कर्मवैशसम् ॥१२८॥ तलारक्षस्ततोऽवादीत् तदादिश करोमि किम् ? । कुमारोऽभिदधे तूर्णं विधेहि नृपशासनम् ॥१२९।। तेनोचे कः प्रलापोऽयमसंबद्धः पुनः पुनः । कुमार ! जगदाधार ! सुतारगुणगौरव ! ॥१३०॥ यदि रक्षसि तां रक्ष देव ! किन्तु ममादिश । उपायं येन ते न स्यामपराधी कथञ्चन ॥१३१।। 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy