________________
10
४४२]
[विवेकमञ्जरी प्रतिषिद्धमथो युद्धं राज्ञा विजयवर्मणा । त्वत्पित्रा वीरसेनोऽपि सत्कृतोऽगाज्जयस्थलम् ॥१०८॥ सूता च गृहिणी तस्य जातः पुत्रः स चास्म्यहम् । कुमार ! तेन ते तातो मत्तातस्योपकारकः ॥१०९।। ममापि च मदम्बाया अपि चेति श्रुतं मया । पितृभ्यां, तेन तेऽस्माकं जीवलोकोऽपि किं बहुः ? ॥११०॥ किञ्चाद्य नृपतिः प्रापानङ्गवत्या निकेतनम् । दृष्टा च रुदती तेन सा नखोल्लिखिता हृदि ॥१११॥ राज्ञा पृष्टा बलात्कारकारिणं त्वां शशंस सा । ततः क्रुद्धः समादिक्षदिति मामधनं नृपः ॥११२॥ सनत्कमारकं पापं तमरे ! कुलपांसनम् । निगृहाण तथा शीघ्रं यथा कोऽपि न विन्दति ॥११३॥ इत्यादिष्टो नृपेणाहं निःसृतोऽतीव दुर्मनाः । हा किमेतदिति ध्यायंस्तोरणेऽशृणवं क्षुतम् ॥११४॥ विलम्बमानं तत् श्रुत्वा प्राह नैमित्तिकोऽथ माम् । क्षुतं सोमाख्यमेतत्ते विनयन्धर ! शोभनम् ॥११५।। ततो गतो गृहं मात्रा पृष्टं कालुष्यकारणम् । तत् तथाऽकथयं तस्या रुदती साप्यदोऽवदत् ॥११६॥ हा वत्स ! मा वधीरेनमुपकारिसुतो ह्ययम् । इत्यागतोऽहमत्रातः परं यत् कृत्यमादिश ।।११७।। ततः सनत्कमारोऽपि चिन्तयामास चेतसि । अहो मायाविता स्त्रीणामहो विलसितं विधेः ॥११८॥ स्वभावः कथ्यते राज्ञश्चेत् तदा सा निहन्यते । चेन्न तत् कुलमालिन्यं वरं तद् मा परव्यथा ॥११९॥
15