________________
10
गुणानुमोदनाद्वारे विलासवतीकथा]
[४४१ सहास्यमिति संभाष्य दत्त्वास्यै कण्ठभूषणम् ।
ततो विसर्जयामास कुमारोऽनङ्गसुन्दरीम् ॥९६॥ 8 अत्रान्तरे समागत्य विनयन्धरसञ्जितः ।
तलारक्षः कुमारस्य नत्वोपाविशदग्रतः ॥९७॥ कारयित्वैष विजनं कुमारमिदमभ्यधात् । अस्ति स्वस्तिमती नाम ग्रामस्त्वत्पितृमण्डले ॥९८।। वीरसेनाभिधस्तत्र राजपुत्रशिरोमणिः । शरण्यः सकृपस्त्यागी भोगीश्वरश्च मान्यभूत् ।।९९॥ आपन्नसत्त्वामादायान्यदा स त्वात्मगेहिनीम् । तस्याः पितुर्गृहस्थाने पुरे गच्छञ्जयस्थले ॥१००।। आवासानग्रहीद् यावद् निकषा श्वेतवतीं पुरीम् । शरणं कश्चिदप्यागात् तावत् तं सत्वरः पुरः ॥१०१॥ युग्मम् ।। तस्यानुपदमेवोच्चैराकृष्टतरवारयः । यमदूता इवागच्छन् पत्तयः पृथिवीपतेः ॥१०२॥ रे रे क्व यासि फेरुण्ड इव वित्रस्य गोपतेः। मण्डवत् खण्डयिष्यामः कृष्ट्वा त्वामवटादपि ॥१०३॥ इत्युद्धतं ब्रुवन्तस्ते वीरसेनेन भाषिताः । कथयन्तु स्थिरीभूय किमनेन विनाशितम् ? ॥१०४॥ ऊचुस्ते ननु चौरोऽयं वध्यः कस्त्वमितो भव । सोप्याहाऽस्य शरण्योऽहमेन रक्षामि सर्वथा ॥१०५॥ तदेवं ज्ञापितस्याथ नृपस्यादेशतस्त्वमी । यावत् प्रधनसंरम्भमारभन्तामुना समम् ॥१०६॥ वाह्यालीमाग्रतस्तावद् यशोवर्मा पिता तव । तज्ज्ञात्वाऽऽह शरण्यं कः शृणाति मयि जीवति ? ॥१०७॥ युग्मम् ।।
15
20