________________
5
10
15
20
४४० ]
कुमारस्त्वाह तां त्वं मे माता मा मैवमादिश । द्वयोर्विरुद्धमेतद्धि लोकयोः कुलयोरपि ॥८४|| इत्युक्ते सा सवैलक्ष्यकैतवोचे तवोत्तम ! मया परीक्षितं सत्त्वं साधु साधु विवेक्यसि ॥८५॥
इत्युदीर्य तदा क्षीर्यमाणयेवान्तरा कुधा । विसृष्टस्तां प्रणम्याशु निजं धाम जगाम सः ॥८६॥ §§ इतश्च सायमायाता ताम्बूलस्रग्विलेपनम् । कुमारायाऽऽर्पयत् तं च बभाषेऽनङ्गसुन्दरी ||८७|| स्वामिनी मन्मुखेन त्वां देव ! विज्ञपयत्यदः । यद् माल्यमार्यपुत्रेदं त्वत्कृते गुम्फितं मया ॥८८॥ कुमारस्तद् निशम्यैतत्करादादाय सादरम् । माल्यं मूर्ध्नि दधौ प्रीतः प्रियाज्ञामिव देहिनीम् ॥८९॥ प्रियायामिव मूर्त्तेनानुरागेण निजं वपुः । विलिलेपाङ्गरागेणात्युद्गतेनेष रोमभिः ॥ ९० ॥ प्रियानीतमिवोद्दामं रागपुष्टिकरं मुखे । सनत्कुमारस्ताम्बूलमनुकूलस्मरोऽकरोत् ॥९१॥ अनङ्गसुन्दरीमूचे विश्वभूतिर्जनान्तिकात् । कुमारविनयं पश्य साह किं न्यूनमस्ति वः ॥९२॥ अथ स्मित्वा कुमारोऽपि बभाषे ऽनङ्गसुन्दरि ! यत्कृत्यादेशकृद्देव्या निखिलोऽयं जनो ननु ॥९३॥ इहैतव्यं त्वया शश्वद् विश्वभूतिमयोऽपि यत् । मा शङ्किष्ठास्तवैवायमावासोऽनङ्गसुन्दरि ! ॥९४॥ भवती घटयन्त्यन्यत् कण्ठाभरणमस्ति नः । तदग्रेतनमादत्स्व नेशा वोढुं द्वयं वयम् ॥९५॥
[ विवेकमञ्जरी