SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [४३९ गुणानुमोदनाद्वारे विलासवतीकथा]] वलितस्खलितस्निग्धमुग्धमन्थरतारकैः । तयापि सैष सद्भावरोचनैरैक्षि लोचनैः ॥७२॥ अथाभ्युदस्थादेनं सा स त्वेनां समभाषत । नतभ्रु ! संभ्रमेणालं जनेऽस्मिन् दुःखदायिनि ॥७३॥ कुमारोऽनङ्गसुन्दर्यां दर्शिते कनकासने । निषसाद कुमारी चानुमता तेन सादरम् ॥७४|| उप्तो दृष्ट्यनुरागेण तयोः सत्प्रेमपादपः । तदा स्वेदाम्बुभिः सिक्तोऽङ्कुरितः कण्टकाङ्कुरैः ।।५।। ताम्बूलैः पत्रितोऽन्योन्यालापैर्मुकुलितस्ततः । स्मितैः कुसुमितो यावत्फलवाऽस्य वीक्ष्यते ॥७६।। तावद् दुर्वातवत् प्राप मित्रभूतिमहल्लकः । उपवीणयितुं तेनोदस्थाप्यत नृपाङ्गजा ॥७७॥ विशेषकम् ॥ मनः प्रतीक्षमाणेव स्थायं स्थायमियं ययौ । इष्टालोके बलद्ग्रीवारङ्ककायं वितन्वती ॥७॥ हस्तविस्रस्तसर्वस्व इव शून्यमनास्ततः । तस्यां गतायामाभाषि कुमारो । विश्वभूतिना ॥७९॥ आवामपि न किं यावस्तां विनाऽत्र स्थितेन किम् ? । देव ! देवकुले देवशून्ये क इव जागर: ? ॥८०॥ इति मित्रगिरोत्थाय कुमारः स्वगृहं व्रजन् । दृष्टो नपनितम्बिन्याऽनङ्गवत्याऽतिसस्पृहम् ।।८।। चेटीमुखात् तयाहूतो वामाक्षिस्पन्दभागपि । गत्वा दाक्षिण्यतः पुण्यविनयः प्रणनाम ताम् ।।८२।। मोट्टायितवपुर्जुम्भायितास्या स्खलितोदिता । अयाचत कुमारं सा रतं सारङ्गलोचना ॥८३।। 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy