________________
४३८]
[विवेकमञ्जरी
श्रुत्वेत्यनङ्गसुन्दर्या गदितं मुदितोऽवदम् । अतः परं शुभे ! चिन्तां कर्तुं नार्हसि कामपि ॥६०॥ प्रभुं तमात्मनो मित्रं गुणज्ञं गुणशालिनम्। तथा विज्ञपयिष्यामि यथा ते सिध्यति प्रियम् ॥६१॥ श्रुत्वेति सा पुनः प्राह स ते वज्रमयः प्रभुः । दृष्ट्वापि स्वामिनीभावं यस्तथा ही निरुद्यमः ॥६२।। मयोचे नैष वज्रात्मा नैव देवो निरुद्यमः । निरवद्यं प्रियाप्राप्त्यै किन्तूपायं विमार्गति ॥६३॥ साह साहसिकानां किं सावधमिति विद्यते ? । मयोचे युक्तमात्थैतन्मेलः कुत्र करिष्यते ? ॥६४॥ सोचेऽहं मन्दिरोद्याने नयिष्ये स्वामिनी निजाम् । आनयेथाः पुनस्तत्र त्वमपि स्वामिनं निजम् ॥६५।। इत्युक्त्वाऽऽत्मसखीकामलेखं मम समर्प्य च । सा ययावहमप्यागामिह लेखस्वयं विभो ! ॥६६॥ कुमारोऽपि समादाय तस्यास्ताडङ्कयोयुगम् । निधाय हृदि रोमाञ्चलिपेस्तन्मयतामयात् ॥६७॥ कुमार्यनङ्गसुन्दर्यं ददौ काञ्चीमहं पुनः । वसुभूते ! ददे तुभ्यं कल्याणकटकार्पणम् ॥६८॥ हसन्निति कुमारोऽस्मै प्रदाय कटकद्वयम् । . ययौ तेन सहोद्यानं वसन्तेनेव मन्मथः ॥६९।। युग्मम् ॥ सर्वर्तुयमुद्यानमयमालोकयन् क्रमात् । लवलीमण्डपान्तःस्थां ससखीं तामलोकत ॥७०॥ तदर्शनवशोत्पनन्नप्रमोदरसमज्जनात् । रोमाञ्चवेपथू भेजे कुमारः किमिहाद्भूतम् ? ॥७१।।
15
.
20