________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
अवादिषं ततोऽहं तां किं ते स्वामिनि ! बाधते ? | सोचे तस्य यशोवर्मसुतस्यादर्शनं सखि ! ॥४८॥ ततो मया तदाधारकृतेऽलीकमपीरितम् । यद् देवि ! भव धीरा ते मेलयिष्यामि तं द्रुतम् ॥४९॥
इति मद्वचसा जीवातुनेवोन्मीलितेक्षणा । ददौ मे रसनादाम तुष्टिदानेऽब्रवीच्च सा ॥५०॥ इदमङ्गीकृतं साधु त्वया त्वय्युपपद्यते । सुहृदां हि सुहृत्त्वस्य कषो विषमकर्मणि ॥ ५१ ॥ लेखः सखि ! शिखण्डी स्यादन्तरङ्गे नियोगिनि । तथापि मदवस्थाया लेखं तस्मै समर्पयेः ॥५२॥ इत्युक्त्वा स्मरलेखाय यावत्कथयते सखी । वृद्धया तावदुत्थाय न्यषेधि कुललज्जया ॥ ५३ ॥ अथोत्पन्नमतिः सैषा समुत्तार्य ममार्पयत् । साञ्जनाश्राम्बुजम्बाललिपि ताडङ्कयोर्युगम् ॥५४॥ अत्रान्तरे समायाता माता शृङ्गारमञ्जरी । उवाच वल्लकीं वत्से ! विलासवति ! सज्जय ॥५५॥ यतो वीणाविनोदार्थं त्वामादिशति ते पिता । वीणाकार्यपि साकार्य समानीतैव सम्प्रति ॥५६॥
इत्याकर्ण्य वचो मातुस्त्रपया संवृतेङ्गिता । पित्रोः प्रमाणमादेश इत्याह स्वामिनी ततः ॥५७॥ इतिकर्तव्यतामूढाऽहं तु भूपभुवा तया । अविसृष्टापि निर्गत्य निजमन्दिरमागमम् ॥५८॥ अधृष्यं तं कथं यामि कुमारं किमु वा पुनः । देवीं विज्ञपयिष्यामीत्यतश्चिन्तापरास्मि तत् ॥५९॥
[ ४३७
5
10
15
20