________________
४३६]
[विवेकमञ्जरी
10
न किञ्चिदिति तेनोक्ते होरामालोक्य कैतवात् । वसुभूति गौ ज्ञातं ज्ञानात्ते दुःखकारणम् ॥३६।। पुष्पस्रक्पाशमाधाय कण्ठे यत्ते मनस्तया । हतं नृपतिनन्दन्या तद् दुनोति मनोम्यहम् ॥३७॥ मा विषीद परं श्रीद ! करिष्यामि तथा यथा । झटित्येव चटत्येषा चित्तचौरी करे तव ॥३८।। इतश्च राजदुहितुः कृते सानङ्गसुन्दरी । कुमारस्य कृते सौव-वसुभूतिरुभाविमौ ॥३९॥ ताम्यन्ताववताराय मिथः संघटितौ द्रुतम् । द्वयोर्हि तप्तयोरेव सन्धिः स्यादयसोरिव ॥४०॥ स्वस्य कामपरौ द्वेधा निकामं तावुभावपि ।
विलग्नौ न व्ययुज्येतां स्वाभिभक्तौ दिवानिशम् ॥४१॥ $$ इतः सनत्कुमारोऽस्ति यावद् मृत्यौ कृतोद्यमः ।
एत्य स्मेरमुखस्तावद् वसुभूतिरदोऽवदत् ॥४२॥ वय॑से देव ! सिद्धं ते सतां हितसमीहितम् । यद् विलासवतीधात्रीसुताऽऽस्तेऽनङ्गसुन्दरी ॥४३॥ रुदती मिलिता साऽद्य मयोचे किमु रोदिषि ? । स्वामिनी म्रियते साह मयोचे कथमाह सा ॥४४॥ मम रूपे सपत्नो यस्तत्कण्ठे केसरस्रजम् । न्यधादियमिति क्रोधादिव कामो निहन्ति ताम् ॥४५॥ वातायनाश्च पल्यङ्के पल्यङ्कादपि कानने । काननाद् भवनेऽभ्येति बिभ्यती स्मरादिव ॥४६।। मनुते हारमगारं नालं व्यालं विधुं वधम् । जलानॊ हुतभुग्मुद्रां स्मरतापग्रहेण सा ॥४७॥
15