________________
[४३५
गुणानुमोदनाद्वारे विलासवतीकथा]
ततोऽसौ हर्षसोत्कर्षश्चकोर इव तर्षितः । पपौ मुखशशिज्योत्स्नां तस्यास्तस्यापि सा पुनः ॥२४॥ विधाय सुस्थितां कण्ठे भुजाभ्यामुपगृह्य च । कराभ्यामथ संगृह्याचुम्बत् तामिव स स्रजम् ॥२५॥ जातु मा यातु निस्सृत्य प्रियोऽयं मे हृदोऽन्तरात् । स्वाङ्गे वृतिमितीवाधात् कुमारी स्फुटकण्टकैः ॥२६।। कुमारस्त्वाक्षिकः सार्धं कुमार्यां सारितस्रजा । हारयन् स्वं सुहृद्विश्वभूतिना प्रेरितोऽग्रतः ॥२७॥ ततः स्वं हारितमपि मतिमानप्रकाशयन् । अनङ्गनन्दनोद्यानं सवयोभिः समं ययौ ॥२८॥ उष्ट्रवल्लज्जया धृत्वा धैर्यं गत्वरमप्यसौ । तत्र चिक्रीड स ध्यानम् सनीडमिव तन्मुखम् ।।२९।। अत्रान्तरेऽनुरक्तात्मा प्रतीची मोक्तुमक्षमः । दिनेन प्रेरितो भानुरपि द्वीपान्तरं ययौ ॥३०॥ आजगाम निजं धाम स्मरेणाग्नेयसायकैः । भिद्यमानः कुमारोऽपि समारोपितधन्वना ॥३१॥ विसृज्य सुहृदस्तेन साध्यकृत्यं विधाय च । शयनीयमलञ्चक्रे चक्रेणेवाथ सैकतम् ॥३२॥ पल्यङ्कचन्द्रिकावापीष्वेहिरेयाहिराकृतः । तस्य कामाभितप्तस्य सा निशा कथमप्यगात् ॥३३॥ विभातायां विभावर्यां प्रातःकृत्यं विधाय सः । उन्मना भवनारामे सहारस्त सुहृज्जनैः ॥३४॥ माधवीमण्डपे नीत्वा ततोऽसौ वसुभूतिना । पृष्टः किं बाधते तेऽद्य मित्र ! येनासि दुर्मनाः ॥३५॥