SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ४३२] [विवेकमञ्जरी ततश्च्युत्वा क्षीरडिण्डीरजीवोऽभूद् नैषधिर्भवान् । प्रिया ते क्षीरडिण्डीरादेवीजीवश्च भीमजा ॥७३॥ यद् द्वादश घटीर्दधे मम्मणेन त्वया मुनिः । ..... तत् प्रियाविरहो राज्यभ्रंशश्च द्वादशाब्दिकः ॥७४।। यच्छत्रधारणं क्षीरपारणं च मुनेः कृतम् । त्वया धनेन धन्येन तेन राज्यस्य संपदः ॥७५॥ भैमी त्वद्वल्लभा वीरमतीजन्मनि यद् ददौ । तिलकान्यर्हतां भाले तेनाऽस्यास्तिलकोऽद्भुतः ॥७६।। श्रुत्वेत्थं नृपदम्पती स्वचरितं तौ जातजातिस्मृती, कृत्वा पुष्कलपुत्रसाद् वसुमती तप्त्वा ततोऽन्वेतयोः । जज्ञे यक्षपतिर्नलः कनकवत्याख्या दशारानुजस्त्री भूत्वाऽप्यगृहस्थकेवलिकलां भैमी तु भेजे शिवम् ॥७७॥ इति दवदन्तीललितनामनि महाकाव्ये चतुर्थः सर्गः ॥ ॥ इति दवदन्ती कथा समाप्ता ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy