SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [४३१ गुणानुमोदनाद्वारे दवदन्तीकथा] निरस्तमन्मथो वाचमथोवाच मुनीश्वरः । राजन्नष्टापदोपान्तेऽस्ति सङ्गरपुरं पुरम् ॥६१।। तत्रासीद् मम्मणो राजा तस्य वीरमती प्रिया । अन्यदा खेटके गच्छन् भूपोऽपश्यत् पुरो मुनिम् ॥६२॥ मन्वन्नशकुनं सोऽथ धारयामास तं क्रुधा । तं द्वादशघटीप्रान्ते कृपयाऽमूमुचत् पुनः ॥६३।। तदहिंसामयो धर्मः साधुनास्मै निवेदितः । राज्ञाप्यङ्गीकृतो वीरमत्या दयितया समम् ॥६४।। ताभ्यां राजसभावेन तद व्रती प्रतिलाभितः । अपराधं क्षमस्वैतमुक्त्वा जगाम सः ॥६५॥ सेवाप्रसाधिता वीरमती शासनदेवता । धर्मस्थैर्यकृते निन्येऽन्येधुरष्टापदोपरि ॥६६।। अकृत प्रतितीर्थेशं विंशतिं विंशतिं ततः । आचाम्लानि तथैकैकमम्लानरुचि पुण्ड्रकम् ॥६७॥ तदुद्यापनकं कृत्वा प्रीता कान्ता महीपतेः । मुनीनानन्द्य दानेन चारणान् पारणं व्यधात् ॥६८॥ तत्तीर्थेशप्रदान् नत्वा राजधानीमियाय सा । चक्रे पत्या समं चाहद्धर्मं निर्मलमानसा ॥६९।। ततः पूर्णायुषावेतौ देवीभूय बभूवतुः । आभीरदम्पती धन्य-धूसर्याख्यौ सुधार्मिकौ ॥७०॥ सप्ताहं प्रावृषि च्छत्रं धृत्वा ध्यानधने मुनौ । दत्त्वा च पायसं तस्मै धन्यो धर्ममुपार्जयत् ॥७१॥ दम्पती हिमवच्छैले भूत्वा तौ युग्मर्मिणौ । अभूतां क्षीर-डिण्डीराभिधानौ त्रिदशावथ ॥७२॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy