SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४३०] धनदेवोऽपि सार्थेशः कुतोऽपि प्राप कुण्डिनम् । तस्य प्रत्युपकारं सा कारयामास भीमजा ||४९|| $$ कश्चिदेत्य दिवोऽन्येद्युर्देवः पश्यत्सु राजसु । भैमीं नत्वाऽवदद् देवि ! त्वत्प्रसादोऽयमीदृशः ॥५०॥ सम्बोध्य तापसेन्द्रोऽहं पुरा प्रव्राजितस्वया । विमाने केशरेऽभूवं सौधर्मे केशरः सुरः ॥ ५१ ॥ इत्युक्त्वा सप्त कल्याणकोटीर्वर्षन् पुरः सुरः । विद्युद्दण्ड इवोद्दण्डो झगित्यथ तिरोदधे ॥५२॥ नलादेशेन देशेभ्यः स्वेभ्यः स्वेभ्यस्ततो नृपाः । ऋतुपर्णादयः स्वं स्वं सैन्यमानाययञ्जवात् ॥५३॥ नलस्तदैव दैवज्ञदत्तेऽह्नि प्रतिकोशलम् । प्रयाणं कारयामास वासवोपमवैभवः ॥५४॥ कम्पयन् सैन्यचारेण स्थावरानपि भूभृतः । कैश्चित् प्रयाणैः स प्राप कोशलोपवनावनीम् ॥५५॥ पुनर्लक्ष्मीं पणीकृत्य द्यूतार्थे दूतभाषया । नलः कूबरमाकार्य दीव्यञ्जित्वाऽग्रहीद् महीम् ॥५६॥ अथानन्दी नलो मन्दीकृतक्रोधो निजानुजम् । अपि क्रूरं व्यधाद् यौवराज्ये प्राज्यमहोत्सवात् ॥५७॥ अथ संप्रेष्य निःशेष राजकं राजकुञ्जरः । दवदन्त्याऽन्वितो राज्यं चक्रे लक्ष्म्येव केशवः ॥५८॥ SS जिनसेनाभिधं सूरिं विज्ञातागममेकदा । ययौ नलो नमस्कर्तुं तया दयितया सह ॥५९॥ प्रणम्य नैषधिः सूरिं निविष्टः क्षितिविष्टरे । पप्रच्छ स्वस्य देव्याश्च कारणं सुखदुःखयोः ॥ ६०॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy