________________
गुणानुमोदनाद्वारे दवदन्तीकथा ]
अन्तर्भैमी नलं निन्ये तद्बलादबलाप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ||३७|| "नाथ ! निह्नुतरूपोऽपि मया त्वमनुभाव्यसे । घनच्छन्नोऽपि माद्यन्त्या कमलिन्येव भास्करः ॥ ३८ ॥ कियदद्यापि दुःखार्त्तं दैवतो मामुपेक्षसे । अवग्रहादिवाम्भोदो भीष्मग्रीष्मद्रुतां लताम् ? ॥३९॥ नाथ ! प्रसीद सीदन्तमात्मैकशरणं जनम् । संजीवय यथावस्थस्वदर्शनसुधारसैः” ॥४०॥ इति भैम्युपराधेन नलश्छन्न इवानलः । जज्ञे बिल्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥४१॥
धृतस्वरूपं तद्रूपं वीक्ष्य कं कं रसं न सा । भेजे भीमसुता धाष्टर्यत्रपासम्पातकातरा ? ॥४२॥ अभितो वीज्यमानाङ्गी नलेनेवाञ्चलैश्चलैः । सद्यः स्वेदोदकस्नाता सा चकम्पे चकोरदृक् ॥४३॥ अदर्शि दर्शनीयश्रोरथयातो बर्हिर्जनैः । नैषधिस्त्यक्तकुब्जत्वो राहुमुक्त इवार्यमा ॥ ४४ ॥ अपराद्धं यदज्ञानाद् मया नाथ ! क्षमस्व तत् । दधिपर्णो वदन्नेवमपतद् नलपादयोः ॥४५॥ स्वयं वेत्रीभवन् भीमो भद्रपीठे निवेश्य तम् । अभ्यषिञ्चद् नलं नाथस्त्वमस्माकमिति ब्रुवन् ॥४६॥ ऋतुपर्णः प्रियायुक्तः स वसन्तश्चसार्थभृत् । सुखदुःखदायादावाहूतौ नलकान्तया ||४७|| वसन्तदधिपर्णर्तुपर्णभीमैः समं नलः । चिक्रीड लोकपालैः स चतुर्भिरिव पञ्चमः ॥४८॥
[ ४२९
5
10
15
20