SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ४२८] [विवेकमञ्जरी 10 अजानति ततः कुब्जे फलसंख्या धराधवः । आख्यदस्मै परिस्पष्टमष्टादशसहस्रिकाम् ॥२५॥ मुष्टिघातेन दन्तीन्द्रघातघोरेण तन्नलः । अपातयदशेषाणि फलानि कलपादपात् ॥२६।। यावद् गणयते तावत् तावन्त्येवाभवंस्ततः । अश्वहृद्विद्यया संख्याविद्यां कुब्जः समाददे ॥२७॥ कुब्जेन कुण्डिनोपान्ते रथोऽनायि निमेषतः । भीमश्चाभ्येत्य तत् तूर्णं दधिपर्णं गृहेऽनयत् ॥२८॥ ऊचे मिथ:कथागोष्ठ्यां दधिपण विदर्भराट् । कुब्जाद् रसवतीं सूर्यपाकां कारय मन्मुदे ॥२९॥ तदुक्तो दधिपणेन कुब्जो रसवतीं व्यधात् । इन्दुपुष्टिकराांशुसंपर्कसुरभीकृता ॥३०॥ लोकैः साकं रसवतीं बुभुजे भूभुजाऽथ सा । विचाराक्षमवैदग्ध्यैमिथः पश्यद्भिराननम् ॥३१॥ आनाय्य तां परीक्षार्थमथैतां भीमनन्दनी । स्वादयित्वा रसवती कुब्जं निरचिनोद् नलम् ॥३२॥ तद् वैदर्भी विदर्भेशं प्रत्याह प्रीतिपूरिता । आस्तां कुब्जोऽपि खञ्जोऽपि निश्चित: सैष नैषधिः ॥३३।। अभिज्ञानान्तरं तात ! पुनरेकं समस्ति मे। नलस्पर्शेन विपुलपुलकं यद् भवेद् वपुः ॥३४॥ तद् मदङ्गमयं कुब्जः स्तोकं स्पृशतु पाणिना । इत्युक्ते भीमवचसा तामङ्गुल्या नलोऽस्पृशत् ॥३५।। वपुः सपुलकं तस्यास्तन्नलस्पर्शतः क्षणात् । आनन्देन्दुबहिःक्षिप्ततमःपुञ्जमिवाभवत् ॥३६॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy