SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे दवदन्तीकथा ] किन्तु मार्गविलम्बोऽभूद् देहस्यापाटवाद् मम । प्रत्यासन्नतरं जातं तल्लग्नं श्वस्तने दिने ॥१३॥ तूर्णं देव ! तदेतव्यमित्युक्त्वास्मिन् गते चरे । आचिन्तयद् नलश्चित्ते किमेतदिति विस्मयात् ॥१४॥ " वर्षिष्यति विषं चन्द्रः पूषा ध्वान्तं वमिष्यति । किमन्यमपि भर्तारं दवदन्ती करिष्यति ? ॥१५ ॥ विवोढुं प्रौढिमा कस्य मत्पत्नीं मयि जीवति ? | फणामणि समादित्सेत् को हि जाग्रति पन्नगे ?" ॥१६॥ इति ध्यात्वा चिरं दधिपर्णं जगाद सः । आसन्नलग्नदूरोर्वीगतिचिन्तापरायणाम् ॥१७॥ समर्पय हयाञ्जात्यान् रथं गाढं च कञ्चन । यथाहमश्वहृद्वेदी नये झटिति कुण्डिने ॥१८॥ इति प्रीतमथाकर्ण्य दधिपर्णेन भूभुजा । उक्तोऽग्रहीच्चतुर्वाहीं रथं चाहीनमोजसा ॥१९॥ अथ चामरभृद्युग्मच्छभृद्भूपभासुरम् । नियुक्तवाजिनं कुब्जो रथं तूर्णमवाहयत् ॥२०॥ नुन्नैरथ रथेवाहैर्जवनैः पवनैरवि । अपतद् भूभृतः स्कन्धात् पटी शृङ्गादिवापगा ॥२१॥ राजा तदवदत् कुब्जं स्थिरीकुरु हयानिमान् । एतदादीयते यावद् वासो वसुमतीगतम् ॥२२॥ जगाद कुब्जको राजन् ! न्यपतत् पत्रं तंऽशुकम् । पञ्चविंशतियोजन्याः T: साऽमुच्यत वसुन्धरा ||२३|| अक्षवृक्षमथो वीक्ष्य कलां दर्शयितुं निजाम् । कियन्त्यत्र फलानीति राजा कुब्जकमब्रवीत् ||२४|| [ ४२७ 5 10 1115 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy