________________
४२६]
[विवेकमञ्जरी
$8 शुश्राव दधिपर्णोऽयमिति विस्तरतः कथाम् ।
श्रुतां कुब्जेन सास्रेण यथोक्तरसनाटिना ॥१॥ शरीराभरणस्तोमदानेनानन्द्य संमदी । प्रेषीत् तं ब्राह्मणं राजा कुब्जस्तु जगृहे गृहे ॥२॥ अभोजयत् स कुब्जेन रसवत्याऽर्कपाकया । स्वर्णदिकं नृपाल्लब्धं दत्त्वा प्रीतिं च लम्भितः ॥३॥ अथायं कुब्जमापुच्छ्य गतः कण्डिनपत्तनम् । तदीयदानभोज्यादि सर्वमुर्वीभुजेऽभ्यधात् ॥४॥ तद् निशम्यावदद् भैमी मुदिता मेदिनीपतिम् । नल एव स कुब्जत्वं ययौ केनापि हेतुना ॥५।। तद् दानं सा मतिः सूर्यपाका रसवती च सा । सन्ति नान्यत्र कुत्रापि युष्मज्जामातरं विना ॥६॥ तामालोच्य ततस्तात ! समुन्मेषय शेमुषीम् । नलो यया रयादेव प्रकटीभवति स्वयम् ॥७॥ सोत्साहमाह भूपस्तां चरं संप्रेष्य कञ्चन । आकार्यो दधिपर्णोऽयं त्वत्स्वयंवरणच्छलात् ॥८॥ गत्वा दूतो यथादिष्टं कथयिष्यति तं प्रति । श्वस्तने यद् दिने भावी दवदन्त्याः स्वयंवरः ॥९॥ तत्पार्श्वे यदि कुब्जोऽयं नलः स्यादवनीधवः । । तदश्वहृदयाभिज्ञस्तमानेष्यति स द्रुतम् ॥१०॥ इति निश्चित्य भीमेन भूमुजा प्रेषितश्चरः । सुंसुमारपुरं गत्वा दधिपर्णमदोऽववत् ।।११।। न प्रापि नलवार्तापि क्वापि तेन करिष्यति । भूयः स्वयंवरो भैमी प्रभुणा प्रेषितोऽस्मि तत् ॥१२॥
15
20