________________
[४२५
गुणानुमोदनाद्वारे दवदन्तीकथा]
इति ब्रुवाणा परिरभ्य सम्भ्रमादाघ्राय मौलो शिबिकां निवेश्य च । निनाय तां चन्द्रयशा गृहे मुदा विभूष्य च क्षोणिपतेरदीदृशत् ।।७४॥ प्रणम्यं तं तातमिवोपविष्टया तत्पृष्टयाऽऽख्यायि कथा तयात्मनः । तदा स्ववंशस्य नलस्य धिक्कृतिं श्रुत्वेव चार्कः प्रययौ रसातलम् ।।७५।। द्विधापि तस्मिंस्तमसि प्रसर्पति स्वमातृजामेर्वचसा विदर्भजा। 5 प्रमृज्य भालं तिलकं तमोऽन्तकं व्यकाशयत् तेन नृपो विसिष्मिये ॥७६॥ इहान्तरे कोऽपि सुरः समेत्य तां प्रणभ्य बद्धाञ्जलिरेवमूचिवान् । यस्तस्करोऽग्राह्यत संयमं त्वया स हंसगामिन्यहमस्मि पिङ्गलः ॥७७॥ उक्त्वेति कोटी: कनकस्य सप्त स प्रवृष्य देवस्त्रिदिवाय यातवान् । नृपोऽपि राज्या स तया समं तदा दृष्ट्वेति दृष्टान्तमजायतार्हतः ॥७८॥ 10 अथो नपः सैन्यभरेण भीमजामघाय भेत्ता प्रजिघाय कुण्डिनम् ।। वर्धापितौ तत्कथया द्विजन्मना प्रमोदतोऽस्याः पितरावभीयतुः ॥७९॥ विलोक्य साग्रे पितरौ स्ववाहनादुत्तीर्य सास्रौ रुदतो नमोऽकरोत् । समस्तलोकेन नतां च तामिमौ प्रवेशयामासतुरुत्सवात् पुरे ॥८०॥ सपूत्कृताम्भ:सममश्रुवर्षणं ज्वलद्वियोगानलतो वितवन्ती । भैमीतिपित्रोः स्वकथामचीकथद् मया श्रुतेयं च तवोदिता पुरः ॥८१॥ दूतस्त्विदानीं तव कोऽपि कुण्डिनेश्वरं जगौ यद् दधिपर्णसन्निधौ समस्ति कुब्जो नलसूपकृद् गुणी स सूर्यतः पाचयते यथा नलः ॥८२॥ श्रुत्वेदं दवदन्त्युवाच मुदिता यत्तात ! जामातृतो, नान्यः कोऽपि च सूर्यपाकरसवत्याम्नायवेदी खलु । तद्धावेति नृपोऽपि वीक्षितुममुं तत्सन्निधौ प्रेषयद, मामाः कुब्जक-एष कुत्र स नलः कन्दर्परूपः क्व च? ॥८३॥ ॥ इति दवदन्तीललितनाम्नि महाकाव्ये तृतीयः सर्गः ॥
15
20