SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३२५] गुणानुमोदनाद्वारे करकण्डुकथा] प्रत्याख्यायात्र सागारं लतागारे क्वचिद् गता । स्मृत्वा देवान् गुरून् गुर्विण्यशेत श्रमवत्यसौ ॥४९॥ नृत्यदुत्तालवेतालमालाकिलकिलारवैः । श्रृगालादिरुतैर्भातेवास्या निद्राऽनशद् निशि ॥५०॥ तत्तद्विभीषिकाभीतेराकुला सा कुलाङ्गना । कृष्णाष्टमीव शीतांशुं निशीथेऽसूत नन्दनम् ॥५१॥ तद्देहविभयैवैतं पश्यन्ती स तमस्यपि। . आशशासाङ्कमारोप्य स्नपयन्त्यश्रुवारिभिः ॥५२॥ जात ! त्वमाजनेरेवारण्यभूत इव स्वयम् ।। वर्धथा मन्दभाग्यायास्त्वयि मे न हि योग्यता ॥५३॥ विभातायां विभावर्यां विभावर्यंशुकावृतम् । विधाय सास्य कण्ठेऽधार्मिकां दाधिवाहिनीम् ॥५४॥ तमथो वनदेवीनां भलयित्वा लतागृहे । वपुः क्षालयितुं साऽगात् तडागान्तस्तडिच्छविः ॥५५।। क्षालयित्वाङ्गमभ्येति यावदेषा लतागृहम् । श्मशानपालश्चाण्डालस्तावदग्रे समाययौ ॥५६॥ बालस्तेन लतागेहे देहेनार्क इवापरः । दृष्ट प्रहृष्टमनसा कराभ्यामुदपाटि सः ॥५७॥ ममापुत्रस्य पुत्रोऽयं वनदेवीभिरर्पितः । इत्युत्ताल स चाण्डालश्चचाल स्वगृहं प्रति ॥५८॥ लतान्तरितया देव्या तन्निरूप्य व्यचिन्त्यथ । यदुत्तरति शृङ्गाभ्यां शृङ्खला तद्वरं खलु ॥५९।। निर्विण्णाहमतीवाम्भाद् नानादुःखभुवो भवात् । छित्त्वा केशांश्छुटिष्ये तद्दीक्षाग्रहणकर्मणा ॥६०॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy