SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [३२४ [विवेकमञ्जरी वत्से ! कासि किमेकासि कस्यासि खलु नन्दिनी । अमरी किन्नरी विद्याधरी किं वा सरीसृपी ? ॥३७॥ सोचेऽहं चेटकोींशसुता चम्पेशगेहिनी । . मत्तेभेनापहृत्येह पातिता विजने वने ॥३८॥ ततः कुलपतिः प्राह चेटकस्यास्म्यहं सुहृद् । तत्प्राप्ता पितृगेहे त्वं वत्से ! मा स्म विखिद्यथाः ॥३९॥ तेनेति गदिता वन्यवृत्तिः सा तापसीष्वथ । भवामर्षान्विता वर्षाचातुर्मासीमिह स्थिता ॥४०॥ अन्यदाऽचिन्तयदियं क्वाहं सम्यक्त्वनिर्मला। क्व च मिथ्यात्वपङ्केऽस्मिन् पातो धिक्कर्मवैवशम् ॥४१॥ वरं वनं वरं भैक्ष्यं वरं प्राणविमोचनम् । मिथ्यात्विषु न तु स्थातुमाहत्याया ममोचितम्" ॥४२॥ इत्यसौ व्यवहारेण नत्वा कुलपति जगौ । अस्थां वर्षाचतुर्मासीमाश्रमे भवतामहम् ।।४३।। नागात् त्वनुपदं कश्चिदगम्येऽत्र वने मुने ! । तद्वसन्तीं भुवं यामि यदि कोऽपि मिलेद् मम ॥४४|| तन्मार्गदर्शकं कञ्चिद् मुनिमादिशताद्य मे । तयेति गदितः सोऽस्यै शिष्यमेकथार्पयत् ॥४५॥ सोऽप्येत्य कियती भूमि जगौ पद्मावतीमिति । अतः परमगम्या नः पृथ्वी हलविलेखिता ॥४६॥ ऋजुरेष प्रयातीतः पन्था दन्तपुरं प्रति । भद्रे ! तद्याहि पन्थानः शिवास्ते याम्यहं गुरुम् ॥४७|| विसृज्य तमथो पद्मावती यान्ती शनैः शनैः । सायं दन्तपुरोपान्ते प्राप प्रेतवनं महत् ।।४८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy