________________
[२९८
[विवेकमञ्जरी
सूरयोऽप्येकदा पृथ्व्यां विहरन्तो यथागमम् । समेत्य श्वेताम्बीपुर्यामुद्याने समवासरन् ॥१३।। चरैर्वर्धापितो मन्त्री तदागमनवार्तया । स्थानस्य एव सद्भक्त्या गुरुपादानवन्दत ॥१४॥ - अचिन्तयच्च मिथ्यात्वग्रहग्रस्तो नृपो मम । याता हा ! दुर्गति घोरां सति मन्त्रिणि मय्यपि ॥१५॥ तदेनं गुरुपादान्ते कथञ्चन नयाम्यहम् । तद्गी: श्रवणतोऽस्यापि यदि मोहो विलीयते ॥१६।। इतश्व वाहनव्याजाद् राजानं बहिरानयत् । परिश्रमविनोदायोद्याने प्रावीविशच्च सः ॥१७॥ धर्मव्याख्यापरं तत्र केशिनं वीक्ष्य भूपतिः । सोत्प्रासमवदद् मन्त्रिन् ! मुण्डोऽयं रारटीति किम् ? चित्रोऽप्युवाच नो विद्योऽभ्यर्णीभूय निशम्यते । इत्युभावुवसर्पाते केशिनं राज-मन्त्रिणौ ॥१९॥ स्वरूपे तत्र देवानां जीवानां च गणेन्दुना । दिश्यमाने जगादेति विहस्य वसुधापतिः ॥२०॥ "मुने ! ते भाषितं सर्वसम्बद्धसत्त्वतः । असत्त्वं च तत्प्रत्यक्षागोचरत्वात् खपुष्पवत् ॥२१॥ सत्प्रत्यक्षागोचरं न यथा भूतचतुष्टयम् । इति स्थितिमुपन्यस्य तमूचुः सूरयोऽप्यथ" ॥२२॥ "भद्र ! किं भवतोऽध्यक्षविषयातीतमेव तत् । उतान्यदेहिनामाद्यपक्षे स्तम्भादिवस्तुनः ॥२३॥ अन्यपक्षोऽथवा तस्यासिद्धत्वाद्वेत्सि तत्कथम् ? । तत्सिद्धौ तु तवैवेह सिद्धा सर्वज्ञजीवता ॥२५॥ .