SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [२८६ [विवेकमञ्जरी 10 अथोचे नागदत्तस्ता भगवत्यो वरं कृतम् । एतान् लम्भितशिक्षांस्तु सज्जीकुरुत बालिशान् ॥९७॥ अथो तदुपरोधेन प्रगुणीकृत्य तानमूः। .... सत्त्वं च नागदत्तस्य सर्वाः स्तुत्वा तिरोऽभवन् ॥९८॥ अथेति ज्ञातवृत्तान्तः पौरामात्यान्वितो नृपः । तत्रागत्य समालिङ्गय नागदत्तमभाषत ॥९९।। श्रेष्ठिपुत्र ! तव ब्रूमः किं वयं महिमाद्भुतम् । धन्योऽहमपि यत्पुर्यां पुण्यपात्रं भवादृशाः ॥१००।। यत्र त्वं तत्कुलं पुण्यं त्वं स पिताऽद्भुतः । यस्याः कुक्षाववात्सीस्त्वं सा श्लाघ्या जननी खलु ॥१०१॥ अज्ञानादपराद्धं यद् मया त्वयि महात्मनि । सर्वथा मर्षणीयं तदेष बद्धोऽञ्जलिस्तव ॥१०२॥ संभाष्येति महीपालस्तमारोप्य करीश्वरम् । पुर्यां प्रवेशयामास गौरवेण गरीयसा ॥१०३॥ सहैतं धनदत्तेन नीत्वावासं निजं नृपः । भोजयित्वा नवीनानि चीनानि परिधाप्य च ॥१०४॥ भूषणैर्भूषयित्वा च स्वासनार्धे निवेश्य च । पप्रच्छ कुण्डलकथां दत्त्वा शपथमात्मनः ॥१०५॥ युग्मम् ॥ असूनां वसुदत्तस्य मार्गायित्वाभयं ततः । नृपाय नागदत्तोऽपि यथावृत्तमशंसत ॥१०६।। अतिप्रीतस्ततो राजाऽऽरोप्य भूयोऽपि तं गजम् । सौधाय व्यसृजद् वीक्ष्यमाणं पौरवधूजनैः ॥१०७॥ वसुदत्तं च नृपतिस्तत्क्षणाच्चूर्णचित्रितम् । धृतसूर्पं शिखाबद्धबिल्वमारोप्य रासभम् ॥१०८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy