________________
गुणानुमोदनाद्वारे विष्णुकुमारकथा ]
इति प्रेक्ष्य महापद्मः स्वाम्बापरिभवं कुधा । अनापृच्छ्यैव पितरं ययौ देशान्तरं निशि ||२६|| स्त्रीभिः श्रीभिश्च गणशोऽव्रियतैष पदे पदे । को विदेशः स्वदेशो वा पूर्वेपात्तसुकर्मणाम् ? ॥२७॥
ततो नवमचक्रित्वपदलक्ष्मीमुपार्श्व सः । स्वपुरं पुनरागच्छदनेकनृपसेवितः ॥२८॥ पित्रा सहर्षमभ्येत्य तत्र तेनादरादसौ । प्रावेश्यत पुरं पौरबद्धवन्दनमालिकम् ॥२९॥ गत्वा सौधमसौ धन्यगुणां स्वजननीं नमन् । तयाऽशस्यत सानन्दमञ्चयन्त्या कराञ्चलम् ॥३०॥ सुव्रतः सुव्रताचार्य: पुराद् बहिरिहान्तरे । आययावर्यमेवान्यो हतमोहतमोभरः ||३१|| पद्मोत्तरनृपः सान्त: पुरपौरपरिच्छदः । एत्यावन्दिष्ट तत्पादान् निकषा निषसाद च ॥३२॥ सूरिः संसारवैराग्यकन्दकादम्बिनीं तदा । चकार देशनामुग्रक्लेशनाशपटीयसीम् ॥३३॥ देशनान्तेऽथ भूपालौ भववैराग्यमुद्वहन् । गत्वा पुरं जगौ विष्णुकुमारं राज्यहेतवे ॥३४॥ स त्वाह तात ! राज्येऽस्मिन् महापद्मो निवेश्यताम् । युष्माभिरेव सत्राहं प्रविव्रजिषुरस्मि तु ॥३५॥ ततो राज्ये महापद्मं कृत्वा पद्मोत्तरो नृपः । व्रतं विष्णुकुमारेण सहाऽऽदत्त महामतिः ॥३६॥ चक्रवर्तिपदे किञ्चाभिषेको द्वादशाब्दिकः । अभ्येत्याभ्येत्य भूपालैर्महापद्मस्य निर्ममे ||३७||
२६१ ]
5
10
15
20