________________
[२४१
गुणानुमोदनाद्वारेऽभयकुमारकथा]
ज्ञातं मयाऽन्तःपुरमद्य साक्षादरे दुराचारमशेषमेतत् । प्रज्वाल्यतां तद् द्रुतमेव मा भूरनीदृशस्त्वं किल मातृमोहात् ॥४१॥ आदिश्य तत्राभयमित्यभीक्ष्णमभीस्तदा क्रोधवशाद् भवस्य । नन्तुं जिनेन्द्राय जगाम राजा विराजमानोद्भुतराजलक्ष्म्या ॥४२॥ अथ स्वभावादभयो विमृश्यकारीति दध्यौ सभयः स्वताते । सतीषु धुर्या मम मातरोऽमू रक्ष्यास्तदा स्यामहमेकतातः ॥४३।। इदं त्वसंभाव्यतमं विकल्प्य तातेन दिष्टं किमहं करोमि ? कोपो हि कोऽपीह महीपतीनां पुरो नदीपूर इवाविषयः ॥४४॥ तथाप्युपाधि परिकल्प्य कालक्षेपो मया क्षेमविधौ विधेयः । प्रभोरविद्याऽन्तमुपैति कालक्षेपाद् यदि क्रोधभरः प्रशान्तिम् ॥४५॥
10 ध्यात्वेति धीमानभयस्तदीयाभ्यणे सुजीर्णेभकुटीमधाक्षीत् ।
चकार चोच्चैर्नृपतेर्निदेशाद् ददाह शुद्धान्त इति प्रघोषम् ।।४६।। $$ इतश्च वीरं नृपतिस्तदानीं मानी समानीय करावपृच्छत् । किमेकपत्नी किमनेकपत्नी स्वामिन् ! ममावेदय चेल्लणेति ? ॥४७॥ स्वामी जगौ श्रेणिक ! तावकीनाः सत्य समस्ता अपि धर्मपत्न्यः। 15 जगाद शीते निशि चेल्लणा तु स्मृत्वा मुनिं तं भविता कथं सः?' ॥४८॥ श्रुत्वेति सद्यः प्रसृतानुतापदाहज्वरो डामरितान्तरात्मा। श्रीवीरनाथं प्रणिपत्य राजधानी प्रतिक्षोणीपतिर्दधावे ॥४९॥ प्रदीपनं तत्र विधाय वेगादभ्यागतं देशनसद्मनोऽग्रे । जगाद् राजाऽभयमादरेण त्वया निदेश: किमनुष्ठितो मे ? ॥५०॥ भयात्तकम्पस्त्वभयः प्रणम्य कृताञ्जलिः क्षमापतिमित्युवाच । आज्ञा परेषामपि तावकीना तात ! प्रमाणं बत किं पुनर्मे ? ॥५१॥ राजापि कोपारुणलोचनस्तं जगाद पापिन् ! परतो व्रजाशु । रे दर्शयस्यात्ममुखं स्वमातृर्दग्ध्वा त्वमग्नौ पतितोऽसि किं न ? ॥५२॥