________________
5
10
15
20
२४० ]
[ विवेकमञ्जरी
ततः प्रबुद्धा सहसैव देवी शीतार्त्तितः सीत्कृतिमादधाना । करेण तेनाम्बुजसंनिभेन नरेन्द्रवक्षः श्रियमर्चति स्म ॥२९॥ निरुत्तरीयं तमृषिं तदानीं स्मृत्वा च सोवाच कृपालुरेतत् । शीतेऽतिघोरे पततीदृशे हा महानुभावो भविता कथं सः ? ||३०|| उक्त्वेति सेयं सरलस्वभावा निद्रामथावाप तथैव देवी । प्रायेण निद्रा सुलभैव तेषां येषां विकल्पा हृदये न केऽपि ॥ ३१ ॥ सीत्कारमात्रेण तदा च तस्या नृपोऽल्पनिद्रः सहसा प्रबुद्धः । तद्वाक्यमाकर्ण्य तथास्वरूपं प्ररूपयामास विकल्पमेवम् ॥३२॥ रिरंसितो निश्चितमस्ति कश्चिदन्यः प्रियोऽस्या हृदि भावलग्नः । शीतार्त्तिसम्भावनयाऽयमित्थं सङ्केतभूभावनुशोचतीयम् ||३३|| ताम्यत्तितिक्षावशगो निशां तां स गोपतिजाग्रदथो निनाय । सचेतनो हि प्रियजामिरुच्चैरनीर्ष्यकः स्याद् न कदाचिदेव ||३४|| अत्रान्तरे मङ्गलतूर्यनादादनन्तरं मङ्गलपाठकास्तम् । प्राबोधयन् पञ्चमरागमुच्चैः प्रपञ्चयन्तः श्रुतिशुक्तिपेयम् ॥३५॥ विभावरीयं नृपते ! विभाता विभावरीशोऽस्तमयं प्रयाति । विभावरीणप्रणयश्च सैष विभावरीयानरुणेऽभ्युदेति ||३६|| हतान्धकारेभघटास्रशोणमायान्तमालोक्य हरिं पुरस्तात् । तारामृगीभिः सममिन्दुकृष्णासारः प्रतीचीं विधुरः प्रयाति ||३७|| ध्वान्तादिदं सम्प्रति गर्भवासादिवाविरासाऽखिलमेव विश्वम् । तेनार्कतेजोऽरुणवर्ष्मणोऽस्य कर्णातिथिः कांस्यवः क्रियेत ॥३८॥ दिशोऽन्धकारेण मिलन्ति नीलीरागा मृगाङ्केण समं हसन्ति । ततोऽनुरज्यन्ति दिवाकरेण धिक् चञ्चलत्वं चपलेक्षणानाम् ॥३९॥ श्रुत्वेति राजा रमणीविरक्तो विसृज्य देवीं स्वनिकेतनाय । आहूय चामात्यमथाभयाख्यमित्यादिदेशाभिनिवेशभीमः ||४०||