________________
गुणानुमोदनाद्वारे दशार्णभद्रकथा ]
[१९१
विवेकी चिन्तयन्नेवं दशार्णपुरपार्थिवः । तत्रस्थ एव व्यमुचत् किरीटकटकादिकम् ॥५४॥ दशार्णेन्द्रोऽथ कर्मद्रोर्मूलानीव समन्ततः । पञ्चभिर्मुष्टिभिः केशानुच्चखानोत्तमाङ्गतः ॥५५॥ शक्रे निरीक्षमाणेऽथ विस्मयस्मेरचक्षुषि । . स गत्वा गणभृत्पार्श्वे यतिलिङ्गमुपाददे ॥५६॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रः श्रमणो जगन्नाथमवन्दत ॥५७॥ तमिन्द्रः प्राह धन्यात्मन् ! अहो ! पौरुषमद्भुतम् । तवेदममुनाऽजैषीर्मामन्यस्य कथैव का ? ॥५८॥
स्तुत्वेति नत्वा च सुरेश्वरस्तं जगाम धाम स्वमनश्वरश्रीः । दशार्णभद्रोऽपि तपोऽभितप्य निर्धूय कर्माणि च मोक्षमाप ॥५९॥४५॥
॥ इति दशार्णभद्रकथा ॥
5
10