________________
[विवेकमञ्जरी
10
१९०]
आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ॥४२॥ युग्मम् ॥ गजस्थ एव सूत्रामा विमानेनानुगामिना । प्रत्यम्बुजं सुरस्त्रैणसंगीताद्वैतशालिना ॥४३॥ स त्रिः प्रदक्षिणीकृत्य स्वामिनो देशनासदः । उत्तीर्य च गजात् तत्र प्राविशत् सपरिच्छदः ॥४४॥ तत्र स्थितैः सुरनरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं ननाम हारेण स्वस्तिकं रचयन् भुवि ॥४५।। दशार्णभद्र इन्द्रस्य तया ऋद्ध्याथ दृष्टया । पुरऋद्ध्या ग्राम्य इव स्तम्भिताङ्गोऽभवत् क्षणम् ॥४६।। "दध्यौ चेति दशार्णेशो विस्मयस्मेरलोचनः ।
अहो ! शक्रविमानस्य शोभेयं भुवनाद्भुता ॥४७।। अहो ! रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य तु । अहो ! समृद्धिविस्तारः कोऽपि वास्तोष्पतेरयम् ॥४८॥ स्वसम्पदभिमानोऽयं व्यधापि धिगहो ! मया । गोष्पदाब्योरिवैतद्धि मम शक्रस्य चान्तरम् ॥४९।। ऋद्धिगर्वादथ स्वात्मा हहा ! तुच्छीकृतो मया । कूपकच्छपकेनेव प्रागदृष्टेर्द्धिना" ॥५०॥ एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः ॥५१॥ ऋद्ध्या यद्यप्यनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणेनाद्य पराजेष्ये तथाप्यमुम् ॥५२॥ न केवलं विजेष्येऽमुं व्रतादानेन सम्प्रति । कर्मारीनपि जेष्यामि भवभ्रमणकारिणः ॥५३॥