________________
[१७१
गुणानुमोदनाद्वारे मेतार्यमुनिकथा]
तथा क्रौञ्चो यवानश्नाद् दुर्जनः सद्गुणानिव । विषेहे स तु मेतार्यः कलादस्य कदर्थनम् ॥२०॥ स यावज्जात्यहेमेव ताड्यमानोऽपि नास्फुटत् । कलादेनामुना तावत् माराङ्कमुपचक्रमे ॥२१॥ वेष्टयित्वाभितो वधं नीरन्धं मूनि स क्रुधा । कीलौ मुनिवृषस्यास्य निचखान विषाणवत् ॥२२॥ "यथा यथा व्यथा जज्ञे मुनिरेष तथा तथा । प्रमोदमैत्रीकारुण्योपेक्षापुण्योऽभवद् भृशम् ॥२३॥ कर्मकीलानपाकर्तुमाहत्य प्रतिकीलिकाः । वरं कार्या हटीतोऽस्मि कृष्यमाणो मुधाऽमुना ॥२४॥ निनिमित्तोपकार्येष निःशेषदुरितापहम् । कथञ्चनापि कल्याणीबोधिरत्नमवाप्नुयात् ॥२५॥ मेतार्यः सकलो लोको वराकोऽयं तु मज्जति । वृथा मेतार्यनामाहमेतस्मिन्नभवं हहा ! ॥२६॥ देहोऽयं याति तद् यातु यद्यस्त्येष तदस्तु वा । किमस्य चिन्ता ह्यस्माकं स्थित्वाऽद्यः श्वोऽपि यास्यति ॥२७॥ इत्यस्य ध्यायतः पक्षपुटतो निःसते दृशौ । एतत्समोऽस्ति कोऽप्यन्य इतीव बहिरीक्षितुम् ॥२८॥ क्षपकश्रेणिनिःश्रेणिमथारोहन्नयं मुनिः । केवलं गुणमासाद्य सद्यो लोकाग्रमीयिवान्" ॥२९॥ तदानीं स्वर्णकृद्गेहप्राङ्गणे कश्चिदक्षिपत् । इन्धनं तद्भटत्कृत्या भीतः क्रौञ्चौऽवमद् यवान् ॥३०॥ तान् विलोक्य जनः क्रोशन् निनिन्द मुनिघातकम् । निजेन कर्मणा सोऽपि मषीलिप्त इवाभवत् ॥३१॥