SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे मेतार्यमुनिकथा] [१६९ अथ सविस्मयं मुनिजनार्यमेतार्यगुणचर्यामाह - दिढसिरवेढनिपीडणनिग्गयनयणो वि जं न परिकुविओ । मेअज्जखमासमणो मे अज्ज वि तं चमक्केइ ॥४३॥ [दृढशिरोवेष्टनिपीडननिर्गतनयनोऽपि यद् न परिकुपितः । मेतार्यक्षमाश्रमणो मेऽद्यापि तच्चमत्करोति ॥] व्याख्या – 'मेअज्जखमासमणो' मेतार्यनामा क्षमाश्रमणो महामुनिः 'दिढ त्ति' दृढश्चासौ शिरसो वेष्ट आर्द्रवध्रबन्धनं दृढशिरोवेष्टः, तेन निपीडनं तन्निपीडनं तेन निर्गते नि:सृते नयने नेत्रे यस्य स तथा, अपीत्यतिशये, इत्थम्भूतोऽप्यसौ 'जं न परिकुविओ' यन्न परिकुपितः, 'मे अज्ज वि तं चमक्केइ' ममाद्यपि तच्चमत्करोतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - 88 अस्ति राजगृहं नाम पुरं तिलकवद्भुवः । यत्र मुक्तापरीवेषः शालवेषः प्रकाशते ॥१॥ तत्र वित्रासितारातिश्रेणिः श्रेणिक इत्यभूत् । राजा सुकृतसन्दर्भराजितः परमार्हतः ॥२॥ त्रिसन्ध्यमर्चयित्वार्हदों तस्याः पुरोऽन्वहम् । स्वस्तिकं कुरुते स्वर्णयवैरष्टशतेन सः ॥३॥ पुरेऽस्मिन्नेकदैकाकिविहारप्रतिमास्थितः । मेतार्यो दशपूर्व्यागाद्रर्यमेव तमोऽपहः ॥४॥ वैभारभूधरे कृत्वा स मासक्षपणं प्रभुः । सैंही वृत्तिं प्रपेदानः पारणायाऽविशत् पुरीम् ।।५।। स्वामीसमितो भ्राम्यन्नेषणाचीक्षणापरः । राज्ञः सुवर्णकारस्य गृहाङ्गणमयं गतः ॥६॥ दरिद्रस्येव कल्पद्रुरन्धस्येव सुधाकरः । मेतार्यपादास्तिष्ठन्तो रेजिरेऽस्य गृहाङ्गणे ||७||
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy