________________
प्रस्तावना ]
वीरीति पुत्री सुगुणैः पवित्रा मनोहराभा हरिणीसुनेत्रा । अभूच्छुभाचारपवित्रपात्रा सद्रूपलावण्यविशुद्धगात्रा ॥२६॥ जग्राह यः पुत्र इह तृतीयः कामप्रदां संयमराज्यलक्ष्मीम् । क्षिप्रं तथा सूरिपदं च लेभे सुदुर्लभं पुण्यवतापि पुंसा ॥२७॥ प्रथमस्यासपालस्य खेतुकाकुक्षिसंभवाः । सज्जनोऽभयसिंहाख्यस्तेजाकः सहजाः सुताः ॥ २८ ॥ सीधुकाख्यद्वितीयस्य सोहरेत्यभवद् वधूः । अगण्यपुण्यदाक्षिण्यलावण्यादिगुणान्विता ॥२९॥
तुर्यस्य पद्मसिंहस्य वालूनाम्नी प्रियाऽभवत् । सुतस्तयोः समुत्पन्नो नागपालाभिधः सुधीः ||३०||
किञ्च
रूपं बलं च विभवो विषयाभिषङ्गो नीरोगता लवणिमा प्रियसंप्रयोगः । वातावधूतपटचञ्चलमेव सर्वं विज्ञाय धर्मनिपुणैर्भविभिर्विभाव्यम् ॥३१॥ अङ्गुष्ठमात्रं यो बिम्बं कारयत्यर्हतां बुधः । सिद्धिनारीपरीरम्भभवं लभते सुखम् ॥३२॥ न मन:पर्ययमवधिर्न केवलज्ञानमत्र नैवास्ति । पुस्तकलेखनमेतत् तद्यष्टिर्दृष्टिहीनानाम् ॥३३॥ श्रीरत्नप्रभसूरेर्गुरोः सकाशाद् निजस्य सद्बन्धोः । संसाराम्भोधितरीं श्रुत्वेत्यथ देशनां विशदाम् ॥३४॥
—
होडापद्रपुरे चैत्ये कारयामास भावभाक् । श्रीमतः सुमतेर्बिम्बमर्हतस्त्रिजगत्पतेः ॥३५॥
अलेखयत् सैष किलासपालः श्रेयः श्रिये स्वस्य पितुः प्रधानम् । विवेकमञ्जर्याभिधां दधानं सत्पुस्तकं निर्वृतिदीपकल्पम् ॥३६॥
यावत् पूर्वाद्रिशृङ्गोदित इह जगति स्वप्रतापेन हन्ति, प्रोद्यन्नीलीविनीले तिमिरभरमरं तापनस्तत्समन्तात् ।
[ १३