________________
१२]
[प्रस्तावना
या पद्मदेवसूरेगुरोः कृते शुभमतिः स्ववित्तेन । चरितं त्रिषष्टिमध्यादलेखयत्प्रथमतीर्थकृतः ॥१३॥ द्वैतीयीको बोहडिरभवत् तनुजो गुणव्रजनिकेतम् । एतस्यावीऽति कुटुम्बिनी च चञ्चद्गुणकदम्बा ॥१४॥ स्वकीयवंशे भुवनावतंसे ध्वजानुकारं दधदङ्गजन्मा। सद्धर्मनिर्मापणदत्तवित्तचित्तस्तयोबिल्हणसंज्ञ आद्यः ॥१५॥ सती सतीसंहतिशीर्षरत्नं तस्य प्रिया जैनपदाब्जभृङ्गी । बभूव दानादिगुणप्रधाना सन्मानसा रूपिणिनामधेया ॥१६॥ द्वितीय आल्हणश्चाभूद् भाग्यसौभाग्यजन्मभूः । अनन्यजनसामान्यसौजन्यमणिरोहणः ॥१७॥ जल्हणस्तृतीयः सूनुश्चतुर्थो मल्हणाभिधः । समभूद् मोहिनी चापि सुता स्वजनमोहिनी ॥१८॥ जल्हणस्य तृतीयस्य नाऊ जाया शुभाशया । वीरपालो वरदेवो वैरिसिंहः सुतास्तयोः ॥१९॥ बहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च । संप्राप्य नाम लेभे सूरिः श्रीपद्मदेव इति ॥२०॥ चतुर्थ आमणश्चारुगुणमाणिक्यमण्डितः ।। पञ्चमो वरदेवाख्यः सत्सख्यविहितोद्यमः ॥२१॥ षष्ठः पण्डितसंहतिचतुरः स्फूर्जद्यशा यशोवीरः । आचार्यपदे लेभे श्रीपरमानन्द इत्यभिधाम् ॥२२॥ सप्तमो वीरचन्द्राख्यो जज्ञेऽनूनगुणावलिः । समभूज्जिनचन्द्राह्वः प्रकृष्टवपुरष्टमः ॥२३।। बोहडिजबिल्हणस्य च पुत्रचतुष्टयमनूनगुणरूपम् । रूपिणिकुक्षिसरोवरकलहंसनिभं विवेकयुतम् ॥२४॥ आशापालः कीर्तिवल्ल्यालवालः सीधूनामा भूरिधामा द्वितीयः । तार्तीयीकोऽभूज्जगत्सिंहसंज्ञस्तुर्यः सूनुः पद्मसिंहाभिधानः ॥२५।।