________________
[८७
गुणानुमोदनाद्वारे गजसुकुमालकथा]
बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो देवक्या लालितः स्वयम् ॥११॥ उपयेमे क्षमापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां सोमशमेद्विजाङ्गजाम् ॥१२।। उद्यौवनः समं ताभ्यां प्रियाभ्यामन्यदा गजः । श्रीनेमिव्याख्यया जातवैराग्यो व्रतमग्रहीत् ॥१३॥ पृष्ट्वा प्रभुं स्मशाने स मतिमान् प्रतिमां व्यधात् । दृष्टः श्वशुरकेणात्र ब्रह्मणा सोमशर्मणा ॥१४॥ सैष प्रव्रज्य मत्पुत्रीं व्यडम्बयदिति क्रुधा । तन्मूनि विदधे पाली मृदाऽमृदुमना द्विजः ॥१५॥ चिताङ्गारचितां चक्रे तामसौ तामसौजसा । गजस्तया ज्वलन्त्याऽऽसीदोषध्येव नगो निशि ॥१६॥ उत्तमाङ्गे ज्वलत्युच्चैर्गजो जगनिमीलिकाम् । चक्रे शरीरं मन्वानः सर्वथा पृथगात्मनः ।।१७।। वह्निर्यथा यथा तस्याऽज्वलद् मूनि तथा तथा । पातालयन्त्रवच्चेतः शमामृतमजीजनत् ॥१८॥ अन्यत्र कारणं कार्यमन्यत्रास्य तदाऽभवत् । जज्वालास्य शिरस्यग्निः कर्माऽदह्यत चेतसि ॥१९॥ अन्यच्च कारणं पश्चात् कार्य चित्रमभूत्पुरः। तमो विलीनमग्रेऽस्य पश्चाज्झानेन्दुरुद्ययौ ॥२०॥ उदूढज्ञानश्रीप्रणयरसनिर्वासितरजा, गजात्मा शैलेशीविधिमयवधूप्रोषितवपुः । कपाले दीप्राग्नौ त्रुटदिति विभिन्ने किल तदा मुदा ब्रह्मद्वारादविशदपुनर्जन्मभवनम् ॥२१॥३१॥
॥ इति श्रीगजसुकुमालकथा ॥