SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ I हेमंतंमि य वासासु य पाणरक्खट्ठा ॥ २०५ ॥ तिण्णि चउ पंच गिम्हे चउरो पंचच्छगं च हेमंते । पंच च्छ सत्त वासासु होंति घणमसिणरूवा ते ॥ ५०६ ॥ माणं तु रयणन्ताणे भाणपमाणेण होइ निफन्नं । पायाहिणं करंतं मज्झे चउरंगुलं कमइ ॥ ५०७ ॥ कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था । दो चेव सुत्तियाओ उण्णिय तइओ मुणेयव्वो ॥ ५०८ ॥ बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । अहंगुला दसाओ एगयरं हीणमहियं वा ॥ ५०९ ॥ चउरंगुलं विहत्थी एयं मुहणंतगस्स उ पमाणं । बीओवि य आएसो मुहम्पमाणेण निष्कण्णं ॥ ५१० ॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दव्वग्गहणं वासावासे य अहिगारो ॥ ५११ ॥ सूवोयणस्स भरियं दुगाउअद्वाणमागओ साहू । भुंजइ एगट्ठाणे एयं किर मत्तगपमाणं ॥ ५१२ ॥ दुगुणो चउरग्गुणो वा हत्थो चउरस्स चोलपट्टो उ । थेरजुवाणाणट्ठा सण्हे धुल्लंमि य विभासा ॥ ५१३ ॥ संथारुत्तरपट्टो अड्डाइज्जा य आयया हत्था । दोहंपि य वित्थारो हत्थो चउरंगुलं चेव ॥ ५१४ ॥ आयाणे निक्खमणे ठाणे निसियण तुयह संकोए । पुठिंव पमज्जणट्ठा लिंगट्ठा चेव रयहरणं ॥ ५१५ ॥ संपाइमरयरेणू पमज्जणट्ठा वयंति मुहपोत्तीं । नासं मुहं च बंधइ तीए वसहि पतो ॥ ५९६ ॥ छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नन्तं । जे य गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ५१७ ॥ तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा। दिट्ठ कम्पग्गहणं गिलाणमरणट्टया चेव ॥ ५१८ ॥ उब्ववाउडे वाइए य ही खद्वपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदट्ठा य पोय ॥ ५१९ ॥ 'एए' इत्यादि गाथा विंशतिः, एत एव - अनन्तरोदिता जिनकल्पिकसम्बन्धिनः पात्रकाद्या मुखवस्त्रिकापर्यन्ता द्वादश उपधिभेदाः, अतिरिक्तं च मात्रकं चोलपट्टकच, एष चतुर्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषये भवति गणनाप्रमाणेनेति ॥ ५०० ॥ इदानीं पात्रकस्य प्रमाणमाह - ' तिन्नी' त्यादि, तिस्रो वितस्तयश्चतुरङ्गुलं च चतुर्णामङ्गुलानां समाहारश्चतुरङ्गुलं चत्वार्यङ्गुलानि चेत्यर्थः, इदं भाजनस्य मध्यमं प्रमाणं, अयमर्थः - वर्तुलस्य सर्वतः समचतुरस्रस्य सुप्रतिष्ठानस्य निश्छिद्रस्य निर्व्रणस्य स्निग्धवर्णोपेतस्य पात्रस्य परिधिर्दवरकेण मीयते, तत्र च मिते यदा मानदवरकस्तिस्रो वितस्तयश्चत्वारि चाङ्गुलानि भवन्ति तदा तत्पात्रं मध्यमप्रमाणं भवति, 'इतो' मध्यमप्रमाणात् पात्रकात् हीनं द्विवितस्त्येक वितस्त्यादिमानं यत्पात्रं तज्जघन्यं, 'अतिरिक्ततरं तु' मध्यमप्रमाणात्तद्वृहत्तर कृष्टं भ ॥ ५०१ ।। पात्रबन्धप्रमाणमाह - 'पत्ते' त्यादि, पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति करणीयं, यदि मध्यमं पात्रं भवति तदा पात्रबन्धकोऽपि ( प्रन्थानं ५००० ) तत्प्रमाणः कार्यः, अथ जघन्यं तदा सोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः, किंबहुना ?, यथा प्रन्थौ 'कृते' दत्ते सति 'कोणाः' प्रन्थेरभ्वलाश्चतुरङ्गुला भवन्ति तथा पात्रबन्धकः कार्य इति ॥ ५०२ ॥ अथ पात्रस्थापनकगोच्छकपात्रप्रत्युपेक्षणिकानां प्रमाणमाह- 'पत्तगे' त्यादि, अथ पात्रकस्थापनं तथा गोच्छकस्तथा पात्रप्रतिलेखनी च एतेषां त्रयाणामपि प्रमाणमेका वितस्तिश्चतुर्भिरङ्गुलैरधिका षोडशाङ्गुलानीत्यर्थः, प्रयोजनं तु पात्रबन्धपात्रस्थापनयो रजःप्रभृतिरक्षणं गोच्छकस्य भाजनवस्त्राणां पटलादीनां प्रमार्जनं केशरिकायास्तु पात्रप्रमार्जन मिति उक्तं च - " रयमाइरक्खणट्टा पत्ताबंधो य पायठवणं च । होइ पमज्जणहेडं गुच्छओ भाणवत्थाणं ॥ १ ॥ पायपमज्जणहेडं केसरिया इत्थ होइ णायव्वा ॥" [ रजआदिरक्षणार्थं पात्रबन्धश्च पात्रस्थापनं च । भवति प्रमार्जनहेतोर्गोच्छको भाजनवस्त्राणां ॥ १ ॥ पात्रप्रमार्जनहेतोः पात्रकेसरिका भवति ज्ञातव्या ॥ ] ॥ ५०३ ॥ अथ पटलानां प्रमाणमाह- ‘अड्डे’त्यादि, अर्धतृतीयान् हस्तान्- साध द्वौ हस्तौ दीर्घाणि - आयतानि षट्त्रिंशदङ्गुलानि एको हस्तो द्वादशाङ्गुलानि चेत्यर्थो रुन्द्राणि - विस्तीर्णानि पटलकानि भवन्ति, अथवा द्वितीयमिदं प्रमाणं - पतद्द्महात् स्वशरीराश्च निष्पन्नं, कोऽर्थः ? - महति पात्रके स्थूले शरीरे लघुतरे पात्रके कृशे शरीरे वा पटलकान्यपि तदनुसारेण करणीयानि ।। ५०४ ॥ तानि च कीदृशानि भवन्तीत्याह - ' कयली' त्यादि, कदलीगर्भदलसमानि शुक्लानि मसृणलक्ष्णानि घनानि चेत्यर्थः क्षौमाणि पटलान्युत्कृष्टमध्यमजघन्यभेदभिन्नानि भवन्ति, उत्कृष्टत्वमध्यमत्वजघन्यत्वानि तु शोभनत्वादिस्वरूपापेक्षया परिगृह्यन्ते, न तु सङ्ख्यापेक्षया, तानि च 'ग्रीष्मे' उष्णकाले 'हेमन्ते' शीतकाले 'वर्षासु च' वर्षाकाले प्रत्येकं २ त्रिविधानि ज्ञेयानि तानि च किमर्थं क्रियन्ते ?, तत्राह - 'प्राणरक्षार्थ' सम्पातिमादिजीवरक्षणनिमित्तं, उपलक्षणत्वात्पक्षिपुरीषपांशुपातादिरक्षणार्थं लिङ्गसंवरणार्थध्व, एतदुक्तं भवति-अस्थ गिते पात्रके सम्पातिमाः सत्त्वाः पतन्ति पवनप्रकम्पितपादपादेः पत्रपुष्पफलादीनि सचित्तरजःसलिलादयो व्योमवर्तिविहङ्गमपुरीषवा त्याहतपांशु प्रकरादयश्च निपतन्ति ततस्तत्संरक्षणार्थ पटलानि धियन्ते, तथा भिक्षां भ्रमतः साधोः कदाचिद्वेदोदयोऽपि सम्भवति ततस्तैर्विकृतलिङ्गस्थ गनं क्रियते ॥ ५०५ ॥ अथैतेषामेवोत्कृष्टमध्यमजघन्यानां प्रीष्मादिषु सङ्ख्यामाह - 'तिण्णी 'त्यादि, ग्रीष्मे उत्कृष्टानि - अत्यन्तशोभनानि त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् सत्वरं सचित्तपृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटलभेदायोगात्, मध्यमानि-न शोभनानि नाप्यशोभनानि चत्वारि, तेषां प्रभूततराणामेव स्वकार्यसाधनात्, जघन्यानि - जीर्णप्रायाणि अत्यन्तमशोभनानि पश्चैव । तथा हेमन्ते उत्कृष्टानि चत्वारि, कालस्य स्निग्धत्वाद्विमर्देन पृथ्वीरजःप्रभृतीनां 80
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy