SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ एए अट्ट विगप्पा जिणकप्पे हुंति उवहिस्स ॥ ४९५ ॥ पुत्तीरयहरणेहिं दुविहो तिविहो य एककप्पजुओ। चउहा कप्पदुएणं कप्पतिगेणं तु पंचविहो ॥ ४९६ ॥ दुविहो तिविहो चउहा पंचविहोऽविहु सपायनिज्जोगो । जायइ नवहा दसहा एक्कारसहा दुवालसहा ॥ ४९७ ॥ अहवा दुगं च नवगं उवगरणे हुंति दुन्नि उ विगप्पा । पाउरणवजियाणं विसुद्धजिणकप्पियाणं तु ॥ ४९८ ॥ तवेण मुत्तेण सत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥ ४९९ ॥ 'पत्त'मित्यादिगाथाऽष्टकं, उपक्रियते व्रती अनेनेत्युपकरणं-उपधिरित्यर्थः, स चोपधिद्धिधा-औधिक औपग्रहिकश्च, ओघः-प्रवाहः सामान्यमितियावत् तत्र भव औघिको नित्यमेव यो गृह्यते इत्यर्थः, उपः-आत्मनः समीपे संयमोपष्टम्भार्थ वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौपप्रहिकः, कारणे आपन्ने संयमयात्रार्थ यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक उपधिर्द्विविधोगणनाप्रमाणेन प्रमाणप्रमाणेन च, तत्र गणनाप्रमाणमेकद्विव्यादिरूपं प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपं, एवमौपप्रहिकोपधेरपि भेदद्वयं भणनीयं, तत्र औधिकोपधिगणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं-पतगृहः १ पात्रबन्धो येन पात्रं धार्यते वस्त्रखण्डेन चतुरस्रेण २ पात्रकस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते ३ पात्रकेसरिका-पात्रप्रत्युपेक्षणिका या चिलिमिलिकेति प्रसिद्धा ४ पटलानि यानि भिक्षा भ्रमद्भिः पात्रोपरि दीयन्ते ५ रजत्राणानि-पात्रवेष्टनकानि ६ प्राकृतत्वाच सूत्रे एकवचननिर्देशः गोच्छक:कबलखण्डमयो यः पात्रकोपरि दीयते ७ अयं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः॥४९२॥ तथा त्रय एव प्रच्छादकाः-प्रावरणरूपाः कल्पा इत्यर्थः, द्वौ सूत्रमयावेक ऊर्णामयो ३ रजोहरणं ४ चैव भवति मुखपोतिका ५, एष उत्कर्षतो द्वादशविध उपधिर्जिनकल्पिकानां भवति॥४९॥ ननु जिनकल्पिका एकस्वरूपा एव भवन्त्याहोश्चित्पृथक्स्वरूपा अपीत्याह-'जिणेत्यादि,जिनानां कल्प:-आचारो जिनकल्पःस विद्यते येषां ते 'अत इनिठना'विति (पा०५-२-११५) ठनि जिनकल्पिकाः, अपि: पुनरर्थो, जिनकल्पिकाः पुनर्द्विविधा-द्विभेदाः, तावेव भेदावाह-पाणी एव पात्रं येषां ते पाणिपात्राः-पाणिपात्रभोजिन एके, पतगृहधराः-पतगृहभोजिनो द्वितीयाः, ते पुनरेकैके द्विभेदा भवेयुः-सप्रावरणा अप्रावरणाश्च, अत्र च सूत्रे प्राकृतत्वात्सलोपो द्रष्टव्यः ॥४९४॥ ननु जिनकल्पिकानां द्वादशविध उपधिरमिदधे स किं सर्वेषामेकविध एव भवति?, नेत्याह-'दुगे'त्यादि,द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशकं एकादशकं द्वादशकमित्येतेऽष्टौ विकल्पा जिनकल्पे भवन्त्युपधेरिति ॥ ४९५ ॥ तानेव व्याचष्टे-'पुत्ती'त्यादिगाथाद्वयं, मुखपोतिकारजोहरणाभ्यां द्विविधः, कोऽर्थः ?-मुखपोतिकारजोहरणलक्षणमुपकरणद्वयमेव पाणिपात्राः प्रावरणवर्जिता जिनकल्पिका धारयन्ति, तथा तेषामेव सप्रावरणानामेकेन कल्पेन युक्तः सन् पूर्वोक्त उपधित्रिविधो भवति, तथा स एव मुखवत्रिकारजोहरणरूप उपधिः कल्पद्वयेन सहितश्चतुर्विधः कल्पत्रयेण संयुक्तः पुनः पञ्चविधो भवति, तथा पूर्वोक्त एव द्विविधत्रिविधश्चतुर्विधः पञ्चविधश्च उपधिः सप्तविधपात्रनिर्योगसहितः सन् यथाक्रमं नवविधो दशविध एकादशविधो द्वादशविधश्चजायते, तत्र रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगसहितो नवविध उपधिः पात्रभोजिनामप्रावरणानां ज्ञेयः, शेषस्तु दशविध एकादशविधो द्वादशविधश्च सप्रावरणानां पात्रभोजिनामिति ॥ ४९६-४९७ ॥ अथ सूत्रकृदेवाप्रावरणानामुपकरणसङ्ख्यामाह-'अहवे'त्यादि, पूर्व सामान्यतो जिनकल्पिकोपधेरष्टौ भेदाः प्रतिपादिताः, अथवा द्विकं नवकं चेति द्वावेव भेदो, तत्र द्विकं रजोहरणमुखपोतिकारूपं नवकं तु रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगलक्षणं, इह च ये प्रावरणवर्जितास्ते स्वल्पोपधित्वेन विशुद्धजिनकल्पिका भण्यन्ते, तेषामेवेदं द्विकनवकलक्षणं भेदद्वयं, अविशुद्धजिनकल्पिकानां तु पूर्वोक्ता एव भेदा इति ॥ ४९८ ।। जिनकल्पप्रतिपत्तिश्च परिकर्मणापूर्विकैव भवति अतः पूर्व परिकर्मणाप्रतिपादनार्थमाह-'तवेणे'त्यादि, तोल्यते-परीक्ष्यते आत्मा यया सा तुलना-परिकर्मणा आत्मनो जिनकल्पाङ्गीकरणं । प्रतिपरीक्षणमित्यर्थः, सा पञ्चधा-पञ्चभेदा उक्ता जिनकल्पं प्रतिपद्यमानस्य, कथमिति तत्राह-तपसा' चतुर्थादिषण्मासान्ततपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति भावः१ 'सूत्रेण' नवपूर्वादिलक्षणेन जिनकल्पोचितेन तथाऽभ्यासं करोति यथा पश्चानुपूर्व्यादिक्रमेण तत्परावर्तयितुं शक्नोति २ 'सत्त्वेन' मानसिकावष्टम्भलक्षणेनात्मानं तथा तोलयति यथा शून्यगृहचत्वरश्मशानादिस्थानेषु भयजनकेषु कायोत्सर्गादिकरणसमये निसर्गनिरर्गलदुर्गोपसर्गपरीषहादिभिरक्षोभ्यो भवति ३ एकत्वेनात्मानं भावयति, एकाक्येव पर्यटन् यदि विश्रोतसिकादिभिः [परिणामवक्रतादिमिः] न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति ४ 'बलेन' एकाङ्गुष्ठाद्यवष्टम्भतश्चिरस्थायित्वादिरूपेण शारीरेण धृतिरूपेण च मानसेनावष्टम्भेनात्मानं परीक्षयतीति ५, एतैः पञ्चमिः प्रकारैस्तुलनां विधाय पश्चाजिनकल्पप्रतिपत्तिः करणीयेति ॥४९९॥ इदानीं 'थविरकप्पोवगरणाई ति एकषष्टितमं द्वारमाह एए चेव दुवालस मत्तग अइरेग चोलपट्टो उ। एसो चउदसरूवो उवही पुण थेरकप्पंमि॥५००॥ तिण्णि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । एत्तो हीण जहन्नं अहरेगयरं तु उक्कोसं ॥५०१॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायव्वं । जह गंठिमि कयंमि ३ कोणा चउरंगुला हुँति ॥५०२॥ पत्तगठवणं तह गुच्छगो य पायपडिलेहणी चेव । तिण्हंपि उ प्पमाणं विहत्थी चउरंगुलं चेव ॥५०३ ॥ अड्डाइजा हत्था दीहा छत्तीसगुले रुंदा। बीयं पडिग्गहाओ ससरीराओ य निप्फण्णं ॥८॥॥५०४ ॥ कयलीगम्भदलसमा पडला उकिट्ठमज्झिमजहण्णा । गिम्हे 19
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy